________________
२४४
दमयन्ती-कथा-चम्पूः
अतः सम्प्रति
मण्डलीकृतकोदण्डः कामः कामं विचेष्टताम् ।
न व्यथिष्ये स्थितः स्थैर्ये धैर्य धामवतां धनम्'३ ॥ ३ ॥ अतः अस्माद्धेतोः सम्प्रति-अधुना
मण्डलीति । वृत्तम् । मण्डलीकृतः-आरोपितः कोदण्ड:-धनुर्येन ईदृशः कामःस्मरः काममिति-यथेप्सितं विचेष्टतां-स्वकर्मणि व्याप्रियताम् । अहं स्थैर्ये-स्थिरतायां स्थित:-अवस्थितः, सन् न व्यथिष्ये-न व्यथामनुभविष्यामि । यतो धामवतां-तेजस्विनां धैर्यमेव-दृढतैव धनं-स्वं । तेन ममाऽत्र धैर्यमेव कर्तुं श्रेयः । ॥ ३ ॥
इति वितळ विहसन्हंसमाबभाषे-साधु भोः ! सुभाषितामृतमहोदधे ! साधु । श्रुतं श्रोतव्यम् । इदानीं भद्र भूयिष्ठो दिवसः । तद्वयं वयस्य, समासन्नाह्निकसमये समुचितव्यापारं साधयामः ।
इति वितळ-विचार्य हसत्१-हास्यं कुर्वन् सन् हंसं आबभाषे-उवाच । सुभाषितेमेवामृतं-पीयूषं तस्य महोदधिरिव यः स तस्य सम्बुद्धौ भोरे सुभाषितामृतमहोदधे ! साधु साधु-चारु चारु, श्रोतव्यं-श्रव्यं श्रुतम् । इदानीं भद्र ! गतो भूयिष्ठः-प्रचुरो दिवसः तत्तस्माद्धेतोः हे वयस्य !-मित्र ! वयं समासन्नः-निकटो य आह्निकसमयःनित्यक्रियावसरस्तस्मिन् समुचितव्यापारः-३ देवार्चनादिस्तं साधयामः-कुर्मः । भवताऽपि
एताः सान्द्रद्रुमतलचलच्चक्रवाकीचकोराः, क्रीडावापीपरिसरभुवः स्थीयतां स्वेच्छयेति । यत्रोन्मीलत्कमलमुकुलान्याश्रयन्त्याः कुरङ्ग्यो,
भृङ्गश्रेण्याः श्रवणसुभगं गीतमाकर्णयन्ति ॥ ४ ॥ भवताऽपि
एता इति । मन्दाक्रान्ता वृत्तम् । एताः क्रीडावाप्यायाः परिसरभुवः-तीरभूमयस्ता वर्तन्ते, भवताऽपि-त्वयाऽपि स्वेच्छया स्वैरं स्थीयतामिति । किम्भूताः क्रीडावापीपरिसरभुवः ? सान्द्राः-निविडा अनन्तरप्ररूढा: ये द्रुमास्तेषां तलेसु-छायासु चक्रवाक्यश्च १. विहसत् । २. हे अनू. । ३. समुचितो योग्यो यो व्यापारः अनू. ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org