SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ चतुर्थ उच्छ्वासः प्रायः सैव भवेदेषा पान्थादश्रावि या मया । युगायितं विनिद्रस्य यत्कृते मे त्रियामया ॥ १ ॥ प्राय इति । वृत्तम् । यत्कृते यदर्थं मे मम विगता निद्रा यस्याऽसौ विनिद्रस्तस्यअपगततन्द्रस्य त्रियामया - रात्र्या युगेनेवाचरितं युगायितं, या च मया पथिकात् श्राविश्रुता सैवैषा - इयं हंसेनापि कथिता प्रायो भवेत् । युगं कृत युगायितम् । त्रियामयेति त्रिसंख्यामितप्रहररात्रि. वाचकत्वेन साभिप्रायं । प्रायः शब्दो वितर्के ॥ १ ॥ तदेतन्मे तद्वार्तामृतपानार्थि भूयोऽपि श्रवणेन्द्रियम् । तृप्यते केन वानन्दकन्दे कान्ताकथानके ॥ २ ॥ तदेतन्मे-मम तदिति । वृत्तम् । श्रवणेन्द्रियं भूयोऽपि - पुनरपि तस्याः - दमयन्त्या वार्तैव अमृतंसुधा तस्य यत्पानं-अत्यन्तादरेण श्रवणं तत् अर्थयते-अभिलषतीत्येवं शीलं । तद्वार्त्तामृतपानार्थि वर्तते । पुनरपि तद्वार्तां शृणोमि येन तृप्तं स्यामित्यभिलाषुकमस्तीत्यर्थः । वेति-पक्षान्तरे, वा-अथवा आनन्दस्य कन्द इवोत्पादकत्वात् यत्तत् आनन्दकन्दं तस्मिन् आनन्दकन्दे कान्ताकथानके केन तृप्यते - प्रीयते ? अपितु न केनाऽपि ॥ २ ॥ Jain Education International तत्किमेनं पुनः पृच्छामि । नेदं नायकस्थानम्' । २४३ तत् किं एनं - हंस पुनः पृच्छामि तद्वार्त्तामिति शेषः । नेदं नायकस्य - प्रधानस्य स्थानं-स्थितिरौचित्यं नायकस्थानकं, धैर्यं हि नायकपदं परमं वदन्ति । यदि पुनः पृच्छामि तदा नायकत्वं प्रयाति । नायकलक्षणं च रुद्रटोक्तमिदम्— “रत्युपचारे चतुरस्तुङ्गकुलो रूपवानरुक् मानी । अग्राम्योज्ज्वलवेषोऽनुल्वणचेष्टः स्थिरप्रवृतिः ॥ सुभगः कलासु कुशलस्तरुणस्त्यागी प्रियंवदो दक्षः । गम्यासु च विस्रम्भी तत्र स्यान्नायकः ख्यातः ॥ " [ काव्यालङ्कार २७,८] For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy