SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ श्रीः चतुर्थ उच्छ्वासः अथ चतुर्थोच्छ्वासव्याख्या प्रतन्यन्ते । एवमेतदाकर्ण्य राजा तत्कालमापूर्णितमाश्चर्येण, आकुलितमौत्सुक्येन, आमन्त्रितमुत्कण्ठया, कटाक्षितं? कंदर्पेण, अभिवादितं रणरणकेन, ज्योत्कारितमाग्रहग्रहेण पृष्ठ कुशलमकालतरलतया, स्वीकृतमस्वास्थ्येन, आलोकितं मदेन', आलोचितं चिन्तया चेतः स्वं स्वयमेव स्वस्थीकृत्य वितर्कितवान् । Jain Education International 1 एवमिति । एवं अमुना प्रकारेण एतत् हंसोक्तं आकर्ण्य - श्रुत्वा राजा - नलः स्वं चेतः स्वयमेव स्वस्थीकृत्य-समाधौ संस्थाप्य वितर्कितवान्-विचारितवान् । किम्भूतं चेत: ? तत्कालं-दमयन्तीकथाश्रवणसमकालमेव आश्चर्येण - अद्भुतेन आपूर्णितं भृतं, साश्चर्यं जातमित्यर्थः । तथा औत्सुक्येन - रणरणकेन आकुलितं - व्याकुलीभूतम् । तथा उत्कण्ठयावाञ्छया आमन्त्रितं-अभिमुखीकृतं दमयन्तीं प्रत्यभिलाषुकं विहितमित्यर्थः । तथा कन्दर्पेण-स्मरेण कटाक्षितं - अर्धवीक्षितं, सस्मरं जातमित्यर्थः । तथा रणरणकेन - औत्सुक्येन अभिवादितं-नमस्कृतं, तां प्रति सोत्सुकं जातमित्यर्थः । तथा आग्रह : - हठस्तस्य यो ग्रह:ग्रहणं तेन ज्योत्कारितं प्रणतं, तस्यां साग्रहं जातमित्यर्थः । तथा अकाले - असमये या तरलता-चञ्चलता तथा पृष्ठं कुशलं यस्मै तत्पृष्ठकुशलं, चञ्चलं जातमित्यर्थः । तथा अस्वास्थ्येन-असमाधिना स्वीकृतं - आयत्तीकृतं, अस्वस्थं जातमित्यर्थः । तथा मदेन-हर्षेण आलोकितं - वीक्षितं, समदं जातमित्यर्थः । तथा चिन्तया तन्मिलनविकल्पेन आलोचितंवितर्कितं स चिन्तं जातमित्यर्थः । चेतः स्वास्थ्यं विधाय किं विचारितवानित्याह For Personal & Private Use Only 1 www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy