SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ २३७ तृतीय उवासः __ हरेति । हरचरणसरोजाराधनेन-शम्भुपादपद्मसेवनेन अवाप्तं-लब्धं पुण्यं येन सः । तथा परमसुकृतस्य-उत्कृष्टपुण्यस्य कन्द इव उत्पत्तिकारणत्वात् । तथा कन्दः कन्दलानां कारणं तथा सोऽपि परमसुकृतानां कारणं, ईदृग्विधः स कोऽपि पुरुषः वन्दनीयःस्तवनीयः । अपिश्चार्थः । च-पुनः स जयतु-परमोत्कर्षेण वर्तताम् । स इति कः ? यः अस्मिन् संसारे दुर्लभां-दुःप्रापां तां-दमयन्ती लप्स्यते-प्राप्स्यति । इति-अमुना प्रकारेण कथिता-उक्ता कथावृत्तान्तो येन ईदृग्विधः सन् स-हंसः अथ-अनन्तरं व्यरंसीत्-विरराम तूष्णीमभजदित्यर्थः ।। ३५ ।। इति वाचनाचार्य-श्रीप्रमोदमाणिक्यगणिशिष्यश्रीजयसोमगणितच्छिष्यपण्डित श्रीगुणविनयगणि-विरचितायां श्रीत्रिविक्रमभट्टविरचित श्रीदमयन्तीकथाविवृतौ तृतीय उच्छ्वासः समाप्तः । १. हरेति वृत्तम् अनू. । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy