SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ २३६ दमयन्ती-कथा-चम्पू: दूरेति, वृत्तम् । तस्याः-दमयन्त्याः तर्जितः-अपाकृतः शैशवव्यतिकरःबालत्वसम्बन्धो येन ईदृशं रम्यं वयः-यौवनं वर्तते । अथ वयसो रम्यत्वमेवाह-तस्याः दूरंअतिशयेन आभोगेन-विस्तारेण यो भरः-भारस्तेन नितम्बस्थली श्लिष्टा-आश्रिता, बृहदारोहवती जातेत्यर्थः । किम्भूतेन दूराभोगभरेण ? भुग्ना रुग्णा-कुब्जीभूता गतिः-गमनं येन स तथा तेन । भुग्नेति "भुजो भङ्गे" [रुजो भंगे, भुजौ कौटिल्ये पा० धा० १५०९-१५१०] "आदितश्च" [पा० सू० ८।२।१६] इति निष्ठानत्वम् । तथा मुग्धं-रम्यं ह्रस्वं स्तनद्वन्द्वंस्तनद्वन्द्वकं “अल्पाख्यायां कन्" [पा० सू० १।४।१३६] स्वर्णसरोजस्य-हेमपद्मस्य कुड्मलकलां-मुकुलकलनां धत्ते-बिभर्ति । "कला स्यात् कालशिल्पयोः । कलने मूलरै वृद्धौ षोडशांशे विधोरपि ।" [२।४८८-४८९] इत्यनेकार्थः । तथा स्मितेन-ईषद्हास्येन सुन्दरा-मनोहरा आलापाः-संभाषणानि, तथा दृष्टयः-दर्शनानि परिचिता-अभ्यस्ता भ्रूविभ्रमाः-भ्रूविक्षेपा याभिस्ताः परिचितभ्रूविभ्रमाः । दृष्टिपदेनात्र नरे चक्षुर्गृह्यते तस्या । द्वित्वेन-बहुत्वासम्भवात्, तेन दर्शनं दृष्टिरिति क्त्यन्तं रूपं साध्यते । ।। ३४ ।। .. तदेष तस्योः सकलयुवजनमनोमयूरवासयष्टेः समस्तसंसारसारसौन्दर्याधिदेवतायाः कथितो वृत्तान्तः ॥ किमन्यत् । यस्मात् त्वया पृष्ठः तत्तस्माद्धेतोर्मया तस्याः-दमयन्त्या एष वृत्तान्तः कथितः । अन्यदपरं किं वच्मि ? किम्भूतायास्तस्याः ? सकलयुवजनानां-समस्ततरुणलोकानां मन एव मयूरः-बीं तस्य वासयष्टिरिव या सा तस्याः । यथा मयूरो वासयष्टौ रमते तथा युवजनानां मनो अस्यां क्रीडतीत्यर्थः । तथा समस्तं यत्संसारे सारं- श्रेष्ठं सौन्दर्य-लावण्यं तस्य अधिदेवतेव-अधिष्ठातृदेवतेव या सा तस्याः । यथा अधिष्ठातृदेव्याः सर्वमायत्तं भवति तथा सर्वमपि सौन्दर्यं तदायत्तमस्तीत्यर्थः ।। हरचरणसरोजाराधनावाप्तपण्यः, परमसुकृतकन्दो वन्दनीयः स कोऽपि । अपि जयतु स यस्तां दुर्लभां लप्स्यतेऽस्मि निति कथितकथा सन्सोऽथरे हंसो व्यरंसीत् ॥ ३५ ॥ इति श्रीत्रिविक्रमभट्टस्य कृतौ दमयन्तीकथायां हरचरणसरोजाङ्कायां' __ तृतीय उच्छ्वासः समाप्त : ॥ १. स्यादंशशिल्पयोः । २. 'न' नास्ति अन्. । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy