SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ २३५ तृतीय उच्छ्वासः शोभनौ हस्तौ यस्याः सा सुहस्ता । तथा पूर्वं - उत्कृष्टं उत्तरं - प्रतिवचो यस्याः सा पूर्वोत्तरा । तथा सार्द्रं-अनिष्ठुरं हृदयं यस्याः सा सार्द्रहृदया । तथा कन्दर्पस्य कामस्य मूलं कारणम् । पक्ष - भद्रपदा, ज्येष्ठा, हस्ता, पूर्वोत्तरा, आर्द्रा, मूलं नक्षत्राणि । किम्बहुना - किंबहूक्तेन लावण्यातिशयः स कोऽपि मधुरस्ते केऽपि दृग्विभ्रमाः १ सा काचिन्नवकन्दलीमृदुतनोस्तारुण्यलक्ष्मीरपि । सौभाग्यस्त्र च विश्वविस्मयकृतः सा कापि संपद्यया, लग्नानङ्गमहाग्रहा इव कृताः सर्वे युवानो जनाः ॥ ३३ ॥ लावण्येति । वृत्तम् । नवकन्दलीवत् - नववृक्षविशेषवत् मृद्वी-सुकुमारा तनुर्यस्याः सा तस्या: दमयन्त्याः स कोऽपि वार्तामगोचरो मधुरः - मनोहरो लावण्यातिशयः सौन्दर्याधिक्यं वर्तत इति क्रिया सर्वत्राध्याहार्या । तथा ते केऽपि अद्भुता दृष्टिविभ्रमा:दृग्विलासा: । तथा सा काचित् सकलजनस्य स्पृहणीया तारुण्यलक्ष्मीरपि । च-पुनः विश्वस्य-समस्तस्य विस्मयं - आश्चर्यं करोतीति विश्वविस्मयवृत् तस्य विश्वविस्मयकृत:जगच्चमत्कारकारिणः सौभाग्यस्य चक्षुष्मताया: सा काप्यद्भुता सम्पत्, यया सौभाग्यसम्पदा सर्वे युवानः- तरुणा जनाः लग्न: अनङ्ग एव - मन्मथ एव महाग्रहो येषां ते । ईदृग्विधा इव कृता: सकामा जाता इत्यर्थः । “त्रिलिङ्गमुपरागेऽपि कलापे च नवाङ्कुरे । मृगजातिप्रभेदे च कन्दली तु [ ] द्रुमान्तरे । " इति गौडः ॥ ३३ ॥ राजा - ततस्तः । हंसः - ततस्तस्याः पुनरिदानीं राजा-नलः ततः-ततः किम् ? इत्युवाच - ततो हंसो ब्रवीति-हे राजन् ! तस्याः - दमयन्त्याः पुनरिदानीम् - Jain Education International दूराभोगभरेण भुग्नगतिना श्लिष्टा नितम्बस्थली, धत्ते स्वर्णसरोजकुड्मलकलां मुग्धं" स्तनद्वन्द्वकम् । आलापाः स्मितसुन्दराः परिचितभ्रूविभ्रमा दृष्टयस्तस्यास्तर्जितशैशवव्यतिकरं रम्यं वयो वर्तते ॥ ३४ ॥ For Personal & Private Use Only www.jalnelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy