SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ २३२ दमयन्ती-कथा-चम्पू: नोच्चैर्भवन्ति न निवर्तन्त इत्यर्थः । कस्मिन् ? के इव ? पाशे-बन्धनग्रन्थौ शकुन्ता इवपक्षिण इव । यथा पाशे पतिताः शकुन्ता नोच्चैर्भवितुं शक्नुवन्ति, तथेमा दृष्टयोऽपि । किम्भूता दृष्टयः ? विस्मृतं-तद्रूपदर्शनरसिकत्वेन नष्टं पक्ष्मपाल्यो:-नेमरोमप्रान्तयोश्चलनं यासां ता अनिमिषा इत्यर्थः ॥ ३१ ॥ अपि च - आबध्नत्परिवेषमण्डलमलं वक्त्रेन्दुबिम्बाहिः, कुर्वञ्चम्पकजृम्भमाणकलिकाकर्णावतंसक्रियाम् । तन्वङ्ग्याः परिनृत्यतीव हसतीवोन्सर्पतीवोल्बणं? लावण्यं ललतीव काञ्चनशिलाकान्ते कपोलस्थले ॥ ३२ ॥ अपि च-पुन: आबेति । तन्वङ्ग्याः -दमयन्त्याः काञ्चनशिलावत् कान्ते-कमनीये कपोलस्थले लावण्यं-नयनलेां स्निग्धत्वं परिनृत्यतीव, तथा हसतीव-हास्यं करोतीव, तथा उल्वणंप्रकटं यथा भवति तथा उत्सर्पतीव-मूर्छतीव, तथा ललतीव-विलसतीव । एतावता तदाधिक्यं दर्शितम् । किं कुर्वत् ? अलं-अत्यर्थं वक्त्रेन्दुबिम्बाबहिः-परितः परिवेषमण्डलंकान्तिपरिधिं आबध्नत्-कुर्वत् । पुनः किं कुर्वत् ? चम्पकस्य जृम्भमाणा-विकसन्ती या कलिका तथा या कर्णावतंसक्रिया-कर्णोत्तंसशोभा तां कुर्वत्-विदधत् । यथा चम्पककलिकया कर्णावतंसक्रिया क्रियते तथा लावण्येनैव चम्पककलिकाकर्णावतंसक्रिया क्रियत इति । लावण्येणैव तच्छोभा विधीयत इत्यर्थः ॥ ३२ ॥ ___एतदाकर्ण्य राजा रञ्जितस्त्कथया पुनरुदञ्चदुच्चरेरोमाञ्चकञ्चुकितकायस्तत्कालमेवान्तःस्फुरन्मन्मथमनोरथभरभज्यमानमानसस्तं हंसमपृच्छत् ॥ राजा-नलः एतत्-दमयन्तीस्वरूपनिरूपकं' हंसोक्तं वचनकदम्बकं आकर्ण्य-श्रुत्वा तत्कथया-दमयन्तीकथया रञ्जितः-आवर्जितः सन् पुनः-भूयस्तं भैमीवृत्तान्तं हंस प्रति पप्रच्छ-पृष्ठवान् । पृच्छिर्द्विकर्मकः । किम्भूतः ? उदञ्चन्तः-तद्वार्ताश्रवणान्निर्गच्छन्तः उच्चा ये रोमाञ्चाः-पुलकास्तैः कञ्चकितः-परिहितकञ्चुक: कायः-देहो यस्याऽसौ उदञ्चदुच्चरो १. निरूपक० अनू. । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy