________________
२३३
तृतीय उच्छ्वासः माञ्च कञ्चुकितकायः । तथा तत्कालमेव-तत्कथाश्रवणसमकालमेव अन्तः-चेतसि स्फुरन्त:-विलसन्तो ये मन्मथमनोरथा:-कामाभिलाषास्तेषां भरेण-अतिशयेन भज्यमानंपीड्यमानं मानसं-अन्तःकरणं यस्य सः । "भरोऽतिशयभारयोः" [२।४५६] इत्यनेकार्थः ।
"पक्षिराज ! राजीववनावतंस ! हंस ! पुनः कथ्यतां तस्याः संप्रति वयोवृत्तवृत्तान्तव्यतिकरः"। इत्युक्तः पुनरेष' तं२ बभाषे । ___"देव, किमेकोऽस्मद्विधः३ पक्षी क्षीरतरङ्गधवललोचनां तां वर्णयेत् यस्या: सर्वदेवमय इवाकारो विभाव्यते ।
हे पक्षिराज ! हे पक्षिश्रेष्ठ ! राजीववने अवंतस इव विभूषकत्वात्शेखर इव यः स तस्य सम्बोधने हे राजीववनावतंस !-हंस ! तस्याः-दमयन्त्याः सम्प्रति वयसि-यौवने वृत्तः जातो यो वृत्तान्तव्यतिकरः-वार्तासम्बन्धः स त्वया कथ्यताम् ।
इति-अमुना प्रकारेण उक्त:-कथितः । एष-हंसः पुनर्बभाषे-उवाच ।
हे देव ! एक:-केवलः अस्मद्विधः-अस्मत्सदृक्षः पक्षी क्षीरतरङ्गवत्-क्षीरोदधिवीचिवत् धवले लोचने यस्याः सा तां क्षीरतरङ्गधवललोचनां, तां-दमयन्तीं किं वर्णयेत् ?किं स्तुवीत ? स्तवनाऽशक्यत्वे हेतुमाह-यस्या:-दमयन्त्याः सर्वदेवमय इव आकार:आकृतिविभाव्यते-दृश्यते ।
तथाहि
सुतारा दृष्टिः, सकामाः कटाक्षाः, सुकुमाराश्चरणपाणिपल्लवा:६, सधाकान्ति स्मितम्, अरुणो दन्तच्छदः, भास्वन्तो दन्ताः, सकृष्णाः केशाः, प्रबुद्धा वाणी, गौरी कान्तिः, गुरुः स्तनाभोगः, पृथ्वी जघनस्थली, सुरभिनिःश्वासः, सुगन्धवाहः प्रस्वेदः, सश्रीकः सकलाङ्गभोगः ।
तथाहीति । सर्वदेवमयत्वमेव दर्शयतियस्या: दृष्टिं सुतारा-शोभनकनीनिका; पक्षे सुमेरुवत् सुतारादेवी । तथा कटाक्षा:
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org