SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ २३१ तृतीय उच्छ्वासः अपि च - मुञ्चन्त्याः शिशुतां भरादवतरत्तारुण्यमुद्राङ्कित - स्फारीभूतनितान्तकान्तवपुषस्तस्याः कुरङ्गीदृशः । उन्मीलत्कुचकाञ्चनाब्जमुकुलं यूनां मुहुः पश्यतां, बाह्वोरन्तरमन्तरायसदृशा मन्ये निमेषा अपि ॥ ३० ॥ अपि न-पुनः मुञ्चन्त्या इति । शिशुतां-शैशवं मुञ्चत्या:-त्यजन्त्यास्तस्या, कुरङ्गीदृशो दमयन्त्याः बाह्वोरन्तरं-मध्यं हृदयं मुहुः-वारंवारं पश्यतां-अवलोकयतां यूनां-तरुणानां निमेषा अपिअक्षिसंकोचा अपि अन्तरायसदृशा चित्रोपमाः१, अहमेवं मन्ये-सम्भावयामि यदि निमेषा न भवेयुस्तदा निरन्तरं ते-तहृदयं पश्यन्तीति । एतावता प्रेक्ष्यस्य अद्भुतत्वं निवेदितम् । किम्भूतायास्तस्याः । भरात्-अतिशयेन अवतरत्प्रादुर्भवत् यत्तारुण्यं तदेव मुद्रा-लाञ्छनं तथा अङ्कितं-चिह्नितं तथा स्फारीभूतं-विपुलीभूतं, तथा नितान्तकान्तं-अतिकमनीयं पश्चात् कर्मधारयः, ईदृशं वपुः-शरीरं यस्याः सा तस्याः । “स्फारस्तु स्फुरकादीनां बुबुदे विपुलेऽपि च" [२।४७९] इत्यनेकार्थः । किम्भूतं बाह्वोरन्तरम् ? उन्मीलती-विकसती कुचावेव काञ्चनाब्जमुकुले-स्वर्णकमलकुड्मले यत्र तत् उन्मीलत्कुचकाञ्चनाब्जमुकुलं । मन्ये इत्यव्ययं उत्प्रेक्षायाम् ॥ ३० ॥ ततश्च -२ तत्तस्याः कमनीयकान्तविजितत्रैलोक्यनारीवपुः, शृङ्गारस्य निकेतनं समभवत्संसारसारं वयः । यस्मिन्विस्मृतपक्ष्मपालिचलनाः कामालसा दृष्टयो, नो यूनां पुनरुत्पतन्ति पतिताः पाशे शकुन्ता इव ॥ ३१ ॥ तदिति । तस्याः-दमयन्त्याः तद्वयः-तारुण्यं संसारे सारं-प्रधानं समभवत्-जातम् । किम्भूतं वयः ? कमनीयकान्त्या-सुन्दरदीप्त्या कृत्वा विजितानि त्रैलोक्यनारीणां वपूंषितनवो येन तत् । पुनः किम्भूतम् ? शृङ्गारस्य निकेतनं-गृहम् । यस्मिन् वयसि यूनांतरुणानां कामेन अलसा-मन्थरा दृष्टयः पतिताः सत्यः पुनः-भूयो नो उत्पतन्ति १. विघ्नोपमाः अनू. । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy