SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ २३० दमयन्ती-कथा-चम्पू: प्रत्यग्रघनसमये-प्रथममेघागमावसरे यन्महीमण्डलं-भूतलं तदिव, यथा तेन तद्भूष्यते । तथा नवकेसराङ्कराणां सप्रभसिंहस्कन्धरोमप्ररोहाणां य उद्गार:-उल्लासस्तेन केसरिण:-सिंहस्य यः किशोरः-शिशुस्तस्य कण्ठपीठमिव । यथा नवकेसराङ्करोद्गारेण केसरिकिशोर-कण्ठपीठं भूष्यते । "केसरो नागकेसरे । तुरङ्गसिंहयोः स्कन्धकेशेषु बकुलद्रुमे । पुन्नागवृक्षे किञ्जल्के स्यात्" [३।५७८-५७९] इत्यनेकार्थः । तथा प्रथममदोद्भदेनअभिनवदाननिर्गमेण करिकलभस्य-दन्तिपोतस्य कपोलस्थलमिव । यथा प्रथममदोद्भेदेन करिपोतगण्डस्थलं भूष्यते । तथा प्रभातप्रारम्भे-अहर्मुखमुखे य: प्रभायाः-दीप्तेः प्रभावःशक्तिस्तेन निशावसाने-रात्रिप्रान्ते यन्नभस्तलं तदिव । यथा प्रभातप्रारम्भप्रभाप्रभावेण निशावसाननभस्तलं भूष्यते । "प्रभावस्तेजसि शक्तौ" [३१७४१] इत्यनेकार्थः । तथा विदलन्ति-विकसन्ति कोमलानि-मृदूनि यानि कमलानि तेषां य: कान्तिसन्तान:शोभाप्रवाहस्तेन सर:सलिलमिव-सरसीजलमिव । यथा विदलत्कोमलकमलकान्तिसन्तानेन सर:सलिलमिव-सरसीजलमिव । यथा विदलत्कोमलकमलकान्तिसन्तानेन सर:सलिलं भूष्यते, तथा तेन तदपि । ततश्च - परिहरति वयो यथा यथाऽस्याः, स्फुरदुरुकन्दलशालि बालभावम् । द्रढयति धनुषस्तथा तथा ज्यां, स्पृशति शरानपि सज्जयन्मनोभूः ॥ २९ ॥ ततश्चेति । तत:-अनन्तरम् परिहरतीति । यथा यथा अस्याः-दमयन्त्याः स्फुरत्-विकसत् उरु-बृहत् यत्कन्दलं-प्ररोहस्तद्वत् शालते-शोभते यत्तथाविधं वयो बालभावं-शैशवं परिहरति-त्यजति तथा तथा मनोभूः-काम: धनु:-चापं दृढं करोति, धनुषो द्रढयति । अत्र कर्मण्यपीति केचिद् यथा “भजे शम्भोश्चरणयोः" [ ] इति प्रक्रियाकौमुदीवचनात् कर्मण्यपि षष्ठी। तथा शरानपि सज्जयन्-सज्जीकुर्वन् सन् ज्यां-प्रत्यञ्चां स्पृशति । कामः प्रागल्भ्यं प्राप्नोतीति भावः ॥ २९ ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy