SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ तृतीय उच्छ्वासः २२९ सन्दर्भणे वैमल्यं-वैशद्यं प्राय । तथा गीत्यां-गाने प्रगीता-प्रसिद्धा तस्या भावः प्रागीत्यं प्राप। तथा कामकथायां प्राकाम्यं-इच्छानभिघातत्वं प्राप । किं बहुना न तत्काव्यं न तन्नाट्यं न सा विद्या न सा कला । यत्र तस्याः प्रबुद्धाया बुद्धिर्नैव व्यजृम्भत ॥ २८ ॥ किम्बहुना-किं बहूक्तेन नेति । तत्काव्यं-सर्गबन्धो न, तन्नाट्यं-भरतादिशास्त्रं न, सा विद्या न, सा कला न, यत्र-काव्यादिषु तस्याः-दमयन्त्याः प्रबुद्धाया:-ज्ञाततत्त्वायाः सत्या बुद्धिः-शेमुषी नैव व्यजृम्भत-न विकाशं अलभत । सर्वत्राऽपि काव्यादिषु बुद्धिः प्रससारेत्यर्थः ।। २८ ॥ __ एवमस्याः शैशव एव निजजरठप्रज्ञातज्ञातव्य वस्तु-विस्तरायाः३ क्रमेण तिलकभूतं नूतनचूतवनमिव वसन्तप्रवेशप्रथम पल्लवोल्लासेन, प्रत्यग्रधनसमयमहीमण्डलमिवामन्दविदलत्कन्दलकलापेन केसरिकिशोरकण्ठपीठमिव नवकेसराङ कुरोद्गारेण, करिकलभकपोलस्थलमिव प्रथममदोभेदेन, निशावसाननभस्तलमिव प्रभातप्रारम्भप्रभाप्रभावेण, सरःसलिलमिव विदलित कोमलकमलकान्तिसंतानेन, मनोहारिणा संसारसारभूतेनाभूष्यत प्रधानं वयः कान्ततरतारुण्यावतारप्राक्प्रारम्भेण । एवं-अमुना प्रकारेण शैशव एव-बाल्यावस्थायामेव निजजरठप्रज्ञया-आत्मीयप्रौढबुद्ध्या प्रज्ञात:-अवबुद्धः ज्ञातव्यवस्तूनां-ज्ञेयपदार्थानां विस्तर:-प्रपञ्चो यया सा सस्याः, अस्याः-दमयन्त्याः क्रमेण-शैशवातिक्रमपरिपाट्या कान्ततरं-अतिशयेन कमनीयं यत्तारुण्यंयौवनं तस्य योऽवतार:-प्रादुर्भावस्तस्य यः प्राक्प्रारम्भः-प्रथमोपक्रमस्तेन तिलकभूतंतिलकोपमानंप्रधानं वयः-कालावस्था अभूष्यत-अलंक्रियत२ । किम्भूतेन ? मनोहारिणाचारुणा तथा संसारे सारभूतः-प्रधानभूतस्तेन । केन ? किमिव ? वसन्तस्य-मधोः प्रवेशे आदौ यः प्रथम:-पूर्वः पल्लवोल्लास:-किसलयोद्गमस्तेन नूतनचूतवनमिव-नव्याम्रकाननमिव । यथा वसन्तप्रवेशप्रथमपल्लवोल्लासेन नूतनचूतवनं भूष्यते । तथा अमन्दानिअनल्पानि विदलन्ति-विकसन्ति यानि कन्दलानि-प्ररोहास्तेषां यः कलापः-समूहस्तेन, १. तिलकोपमं अनू. । २. अलमक्रियत अनू. । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy