________________
२१८
दमयन्ती-कथा-चम्पू: स्मितं हास्यं यस्य सः, ईदृग्विधः सन् स्मरविकारं कुरुत इत्येवंशीलौ स्मरविकारकारिणौमन्मथविलासोल्लासितौ, तथा कलभकुम्भवत्-करिपोतशिरःपिण्डवत् विभ्रमवन्तौ?विलासवन्तौ भवन्तौ विभ्रमायमाणौ यौ तौ कलभकुम्भविभ्रमायमाणौ ततः कर्मधारयः, ईदृशौ पीवरौ-पीनौ यौ कुचौ-कुचकुम्भौ तावेव पीठं-आसनं तत् कर्म आरोपित:-अवस्थापितः । अनेन रजन्या:-सुखातिक्रम उक्तः । विभ्रमायमाणेत्यत्र विभ्रमशब्दात् “तद्वति वर्तमानादायिः" [ ]। शोभादिभ्यस्तद्ववृत्तिभ्य एव प्रत्ययो भवतीति वचनात् ।
एवमस्य सकलसंसारसुखपरम्परामनुभवतो यान्ति दिवसाः ।
एवं-अनेन प्रकारेण अस्य-भीमस्य सकलसंसारसुखानां या परम्परा-परिपाटी तां अनुभवतः-आस्वादयत: सतो दिवसा: यान्ति-गच्छन्ति ।
कदाचिच्चारुचामीकराचलचलदेहाधिदेवतेव बहुधानन्दने सुरुचिरवायौवनारभ्भे सुरतोत्सवमनुभवन्ती पत्युः प्राणप्रिया प्रियंगुमञ्जरी गर्ने बभार ।
___ कदाचित्-कस्मिंश्चित् समये सुष्ठ रुचिः-इच्छा रवश्च-स्वरे यस्याः सा सुरुचिरवा:शोभनाभिलाषा: कलभाषिणी च, पत्यु:-भीमस्य प्राणेभ्योऽपि प्रिया-दयिता प्रियङ्गमञ्जरी गर्भं बभार-दधे । किं कुर्वती ? बहुधा-अनेकधा आनन्दयति-हर्षयति यः स तथा तस्मिन्, यौवनारम्भे तारुण्यादौ सुरत-मोहनं तदेव उत्सव:-उद्धर्षस्तं अनुभवन्ती-आस्वादयन्ती । प्रियङ्गमञ्जरी केव ? चारु:-मनोज्ञो यश्चामीकराचलः-मेरुस्तस्य चलन्-विलसन् देहो यस्या ईदृशी अधिष्ठातृ देवता इव । सा हि बहुधा-अनेकधा सुष्ठु अतिशयेन रुचिरवायौमृदुसुरभिमरुति नन्दनाख्ये वनारम्भे-वनमुख्ये सुरताया:-देवत्वस्य उत्सवं-हर्षं अनुभवति । आरम्भणं आरम्भः, आदिरित्यर्थः । नन्दनं हि वनानामादि:-अग्र्यं प्रधानमित्यर्थः । यदि वा, वनानि आरभ्यन्ते अनेनेति कृत्वा वनारम्भः शतानन्देन हि प्रथमं नन्दनं सृष्ट्वा तवृक्षावयवैः-बीजशाखादिभिरितरवनानि जगति सृष्टानि ।
तेन च विकचचूतमञ्जरीव कोमलफलबन्धेन बन्धुर रमणीयाकृतिः, चन्द्रकलेव कलाप्रवेशेनोपचीयमानप्रभा, प्रभातवेलेवोन्मीलदंशुमालिमण्डलेनानन्द्यमाना३, रत्नाकरतरङ्गमालेवान्तःस्फुरन्माणिक्यकान्तिकलापेनोद्भासमाना, गर्भसंदर्भितेन लावण्यपुण्य परमाणुपुञ्जेन व्यराजत राजमहिषी।
१. विभ्रमवत्तौ विभ्रमवन्तौ अनू. । २. उत्प्रेक्ष्यते, चारु: अनू. ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org