________________
२१९
तृतीय उच्छासः
तेन चेति । तेन च-गर्भेण संदर्भित:-रचितस्तेन लावण्येन सौन्दर्येण पुण्यः-पवित्रो यः परमाणुपुञ्जस्तेन लावण्यपुण्यपरमाणुपुञ्जेन सा राजमहिषी-पट्टराज्ञी व्यराजत-शुशुभे । किम्भूता सा ? कुसुमान्तर्मूढः फलारम्भकरसकणिकारूपो' बन्धः कोमल:-अभिनवोत्पन्नत्वात् मृदुर्यः फलस्य बन्धस्तेन विकचा-सविकासा या चूतमञ्जरी-आम्रमञ्जरी सेव बन्धुररमणीया-अतिशयेन सुन्दरा आकृति:-आकारो यस्याः सा बन्धुररमणीयाकृतिः । यथा फलबन्धयुताऽऽम्रमञ्जरी रमणीयाकारा भवति तथा तेन साऽपि । बन्धुररमणीया इत्यत्र एकार्थो द्विरुक्तः शब्दस्तस्यैव सातिशयत्वं द्योतयति । तथा कलाप्रवेशेन-कलान्तश्चारेण चन्द्रकलेव-शशिषोडशांश इव उपचीयमाना-वय॑माना वृद्धि नीयमाना प्रभा-देहकान्तिर्यस्याः सा उपचीयमानप्रभा । यथा चन्द्रकला प्रतिपदि वर्तमाना सती कलाप्रवेशेन द्वितीयायां उपचीयमानप्रभा भवति, तथा तेन गर्भेण साऽपि । तथा उन्मीलत्-प्रादुर्भवत् यत् अंशुमालिमण्डलं-रविबिम्बं तेन प्रभातवेलेव-प्रभातसमय इव आनन्द्यमाना-हर्षं प्राप्यमाणा । यथा नवरविविम्बेन प्रभातवेला आनन्द्यते तथा तेन साऽपि। तथा अन्तः-मध्ये अर्थात्तरङ्गमालाया एव स्फुरन्-दीप्यमानो यो माणिक्यानां-रत्नानां कान्तिकलाप:-दीप्तिसमूहस्तेन रत्नाकरस्य-अब्धेस्तरङ्गमालेव-वीचिपंक्तिरिव उद्भासमाना-शोभमाना । यथा अन्तःस्फुरद्रत्नकान्तिवृन्देन रत्नाकरवीचिमाला भासते तथा तेन सा ऽपीति ।
गच्छत्सु च केषुचिद्दिवसेषु सुवृत्ततुहिनाचलगण्डशैलयुगलमिव बालमयूरिक्रान्तम्, अनङ्गसौधशिखरद्वयमिव शेखरीकृतेन्द्रनीलकलशम्, उज्ज्वलरौप्यनिधानकुम्भयुग्ममिव भुजंगसंगतमुखम्', उल्लासिहंसमिथुनमिव चञ्चूत्खातपङ्किलकमलकोमलकन्दम् , ऐरावतमस्तकपिण्डपाण्डुरमुच्चचूचुकश्यामलिम्नाऽलंकृतमापूर्यमाणमन्तःक्षीरेण क्षणंमखिद्यत पयोधरद्वन्द्वमुद्वहन्ती ।
गच्छत्सु च केषुचिदिवसेषु गर्भानुभावात् सा-प्रियङ्गमञ्जरी ईदृशं पयोधरद्वन्द्वंकुचयुग्मं उद्वहन्ती-धारयन्ती क्षणं क्षणं-मुहूर्तं मुहूर्तं अखिद्यत-खेदमाप । किम्भूतम् ? अन्तः-मध्ये क्षीरेण-पयसा आपूर्यमाणं-भ्रियमाणं । अत एव पुनः किम्भूतम् ? ऐरावतमस्तकपिण्डवत्-सुरगजकुम्भस्थलवत् पाण्डुरं-श्वेतं, तथा उच्चचूचुकयोर्यः श्यामालिमा-श्यामत्वं तेन अलङ्कृतं-विभूषितं । एतावता अधः पाण्डुरा२, उपरि च नीलचूचुकराजितमस्तीति भावः । अथैतदाकृत्यैवोपमानान्याह-उत्प्रेक्ष्यते, बालमयूराभ्यामा
१. फलारम्भरस० अनू. । २. पाण्डुरं अनु. ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org