________________
तृतीय उच्छ्वासः
२१७ धूपधूममुचि विचित्रचित्रशालिनि प्रान्तप्रदीपितदीप्रप्रदीपदीप्ति दण्डखण्डिततमसि सज्जितशय्ये शय्यागृहे गृहीतस्पृहणीयाङ्गरागो रागसागरकल्लोललोललोचनया तया प्रियया प्रियंगुमचर्या अलीककलहकोप कुटिलभ्रम
द्भूकोणतर्जनजनितस्मितः स्मरविकारकारिकरिकलभकुम्भविभ्रमायमाणो पीवर कुचकुम्भपीठमारोपितो रजनीमनैषीत् ।
क्रमेण च-तत्समयोचितकृत्यकरणपरिपाट्या प्रचुरा:-बहुलाः चलन्तो ये चाषा:किकीदिवयस्तेषां यत्कुलं-वृन्दं तद्वत् काला-कृष्णा या कान्तिस्तया काशन्ते-दीप्यन्तेऽवश्यमिति प्रचुरचलच्चाषकुलकालकान्तिकाशिनस्तैः, कृष्णच्छविभिरित्यर्थः। एवंविधैः बहलतमा:-अतिशयेन निविडाः ये तम:कल्लोला:-अन्धकारपरम्परास्तैर्लोके आलोडितेअवगाहिते व्याप्ते सति लोकेश्वरः-भीम: विहितो विकालवेलाया:-सन्ध्यासमयस्य व्यापार:कर्म येन, ईदृग्विधः सन् एवंविधे शय्यागृहे-निवासभवने रजनीमनैषीत्-अत्यवाहयत् । किम्भूते शय्यागृहे ? पारसीकदेशादुपनीता:-उपढौकिताः अतिशीघ्रगामित्वात्, पारावारपारगामिनः पारावारपारीणाः ये पारापतपतत्त्रिणस्तेषां यानि पञ्जराणि-वीतंसास्तैः सनाथे-सहिते । “अवारपारात् पन्तानुकामं गामि" [पा० सू० ५।२।११] इति सूत्रेण व्यस्ताविपरीताच्च इत्युक्तत्वात्, रवः खस्य चेनः । तथा विकीर्णा-विक्षिप्ता वासधूलि:सुगन्धिचूर्णपांशुर्यत्र तत्तस्मिन् । तथा धूपधूमं मुञ्चति' धूपधूममुक् तस्मिन्, तत्र तस्य विधीयमानत्वात् । तथा विचित्राणि-विविधानि चित्राणि आलेख्यानि यत्र, ईदृशी शालागृहैकदेशो विद्यते यत्र तत् विचित्रचित्रशालि तस्मिन् । “शालौकस्तत्प्रदेशयोः । स्कन्धशाखायाम्" [२/५२३-२४] इत्यनेकार्थः । यद्वा, विचित्रश्चित्रैः शालतेशोभतेऽवश्यमिति विचित्रचित्रशालि तस्मिन् । तथा प्रान्ते-गृहकोणे प्रदीपिता:-तैलक्षेपेण प्रभास्वरीकृता दीप्रा-दीपनशीला ये प्रदीपास्तेषां ये दीप्तिदण्डा-सम्मिलितरुचिप्रपञ्चास्तैः खण्डितं-शकलीकृतं तमः-अन्धकारं यस्मिस्तत्तस्मिन् । दीप्तय एव दण्डाः दीप्तिदण्डाः । तथा सज्जिता-समारचिता शय्या-शयनीयं यस्मिंस्तत् तस्मिन् । किम्भूतो राजा ? गृहीत:स्वीकृतः स्पृहणीयः-अभिलषणीयः अङ्गराग:-विलेपनं येन सः । पुनः किम्भूतः ? रागःविषयाभिलाषः स एव सागरस्तस्य ये कल्लोला:-विविधरुचिवीचयः, यद्वा रागसागरकल्लोला:-अनुरागपरम्परास्तैर्लोले-चपले लोचने यस्याः सा तया रागसागरकल्लोललोचनया तया पूर्वोक्तप्रियया-वल्लभया प्रियङ्गमञ्जर्या का अलीककलहाद् यः कोपस्तेन कुटिल:-वक्रो भ्रमन्-परावर्तमानो यो भ्रूकोण:-भूप्रान्तस्तेन यत्तर्जनं तेन जनितं उत्पादितं
१. मुंचतीति अनू. ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org