________________
२१६
दमयन्ती-कथा-चम्पू: "बन्धुर्धातृबान्धवयोः" [२।४६] इत्यनेकार्थः । एवंविधे समये राज्ञः-भीमस्य सन्ध्यावसरं-सायन्तनसमयं आवेदयत्-ज्ञापयत् सत् किन्नरमिथुनं इदं वक्ष्यमाणं अगायत्रागवदुच्चारेण अपठत् ।
भोगान्भो ! गाङ्गवीचीविमलितशिरसः प्राप्य शंभोः प्रसादान्मोहान्मोहानभिज्ञाः क्वचिदपि भवत प्राणिनो दर्पभाजः । यस्माद्यः स्मार्तविप्रप्रणतिनुतपदः सर्वसंपन्नभोगो भास्वान्भाः स्वाङ्गभूता अपि स परिहरन्नस्तमेष प्रयाति ॥ २२ ॥
भोगानिति । भो ! इति आमन्त्रणे । भो प्राणिनः ! गाङ्गवीच्या विमलितं शिरो यस्य स तस्य गङ्गोमिनिर्मलीकृतोत्तमाङ्गस्य शम्भोः-शिवस्य प्रसादाद् भोगान्-शब्दादीन् विषयान् प्राप्य दर्पभाजः-दृप्तास्सन्तः मोहात्-अज्ञानात् सकाशात् ऊहानभिज्ञाः ऊहायांविचारणे अनभिज्ञाः-अचतुराः, अविमर्शकामात् क्वचिदपि विषये भवतामायोगेऽपि सानुबन्ध-त्वाद्विधौ पञ्चमी, यस्माद्धेतोः स्मार्त्तविप्रैः-स्मृतिपाठकद्विजैः प्रणतौ-प्रणामसमये नुते-स्तुते पदे-चरणौ यस्य स, तथा सर्वा सम्पत् यस्य स सकलश्रीकः, तथा नभोग:वियद्गामी यो भास्वान्-रविः सोऽपि स्वाङ्गभूताः-स्वशरीरप्राप्ता भा-दीप्ती: परिहरन्त्यजन्। एष भवतां प्रत्यक्षोऽस्तं प्रयाति । सर्वे सुलभा दुर्लभाश्च सम्पन्नाभोगा अस्येत्युक्त्याऽभिहितं तस्मादेवंविधस्य महात्मनो रवेरस्तं विलोक्य शम्भोराराधनादिकार्ये न प्रमदितव्यमित्यर्थः । पदशब्दः पुन्नपुंसकः । "भूतं सत्योपमनायोः । प्राप्तेऽतीते पिशाचादौ पृथ्व्यादौ जन्तुयुक्तयोः।" इत्यनेकार्थः [२।१८६-१८७] ॥ २२ ॥
एतदाकर्ण्य नरपतिः सांध्यं विधिमन्वतिष्ठत् ।
एतदिति । एतत् रवेरपि एवंविधावस्था भवति तर्हि अन्येषां का विकल्पना ? इत्यादि वैराग्यगर्भितं किन्नरमिथुनोक्तं वृत्तं आकर्ण्य नरपति-भीमः सन्ध्यायां भवं सान्ध्यं विधि-सन्ध्यावन्दनादिकं अन्वतिष्ठत्-चकार । सान्ध्यमिति “भर्तुसन्ध्यादेरण्" [सि० हे० श० ६।३।८९] इत्यण् ।
क्रमेण च प्रचुरचलञ्चाषकुलकालकान्ति काशिभिर्बहलतमतम:३कल्लोलैरालोडिते लोके लोकेश्वरो विहितविकालवेलाव्यापारः पारसीकोपनीतपारावारपारीणपारावत पतत्रिपञ्जरसनाथे विकीर्णवासधूलिनि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org