SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ तृतीय उच्छ्वासः २१५ काननान्तरालेषु ये तरवस्तेषां शिरसि श्रितानि-अवस्थितानि यानि शाखाशिखराणिशाखाग्राणि तेषु विलम्बमानासु-किञ्चित्कालक्षेपं कुर्वाणासु सतीषु । तथा अस्ताचलस्यअस्तगिरेर्या वनराजिरेखा-काननपंक्तिविस्तारस्तस्यां । “रेखा स्याल्पके छद्मन्याभो गोल्लेखयोरपि ।" [२।२५] इत्यनेकार्थः । उपरिपतितं-उपरिष्टात्प्राप्तं रागिणं अहर्मणि-सूर्यं अवलोक्य-वीक्ष्य ईर्ष्या च-परोत्कर्षासहनं मात्सर्यं यदसावस्यां वनराज्यां रक्त इति । रोषश्चभर्तुरेवोपरि कोपः, मामभुक्त्वैव मां असजदिति रूपः, भयं च-मा कदाचिन्नागच्छदपि ततो द्वन्द्वैकवद्भावे ईर्ष्यारोषभयं तस्मादिव पश्चिमाशामुखे जपापुष्पनिचयवत्-जपाकुसुमसमूहवत् रक्ता रुक्-कान्तिर्यस्य तत्तस्मिन् जाते सति । किम्भूतायां अस्ताचलवनराजिरेखायां ? विस्तीर्णशिलावकाशः पृथुशिलान्तरमेव जघनं-श्रोणी यस्याः सा तस्यां । तथा उल्लसन्तःविलसन्तो लोहिता-रक्ता अधरा:-अधःस्थिता पल्लवाः-किसलयानि यस्याः सा तस्याम् । अन्यस्या अपि कान्ताया मुखं विस्तीर्णशिलावकाशवज्जघनं यस्याः सा तस्याम् । तथा उल्लसन् लोहितो अधरपल्लव:-ओष्ठकिसलयं यस्याः सा तस्याम् । अपरकान्तायामनुरागिणं उपरिपतितं पतिमवलोक्य ईर्ष्यादिवशात् रक्तं स्यात् । तथा निजनीडेषु-आत्मीयकुला येषु यन्निलयनं-अवस्थानं तस्य यदाऽऽकूतं-अभिप्रायस्तेन कूजितः-शब्दितो जरदण्डजानांवृद्धपक्षिणां यो व्रजः-वृन्दं तस्मिन् नभ:-व्योम मुखरयति-सशब्दं कुर्वति सति । तथा सन्ध्याविधेः-सायन्तनकर्मणः सन्ध्यावन्दनादेर्या विधित्सा-कर्तुमिच्छा तया हेतुभूतया द्विजन्मजना:-ब्राह्मणलोकाः मुनयश्च-यतयस्तेषां निकाये-समूहे सर:-सरसीं व्रजति सति, स्नानपूर्वकत्वात् सन्ध्याविधिविधानस्येति । तथा अन्धकारे-तमसि गगनलक्ष्मी-नभःश्रियं श्यामयति-श्यामलां कुर्वति सति । उत्प्रेक्ष्यते, कालागुरुरसस्य-कृष्णागुरुद्रवस्य अङ्गराग इव-विलेपन इव । कृष्णागुरुरसांगरागो हि अङ्ग श्यामलयत्येव । किम्भूते अन्धकारे ? अभिसारिकायाः-सङ्केतस्थानगामिन्याः कामिन्याः-स्वैरिण्या इत्यर्थः, बन्धुरिव-भ्रातेव यः सः तस्मिन् । यथा भ्रातुर्गुहे स्वैरं रमते तथा अन्धकारेऽपि अभिसारिकायाः यथेच्छं प्रवृत्तिरिति भावः । “हित्वा लज्जा भये श्लिष्टा मदनेन मदेन या । अभिसारयते कान्तं सा भवेदभिसारिका ॥ १ ॥" [ ] रुद्रटेप्युक्तम् "अभिसारिका तु या सा दूत्या दूतेन वामसहैका वा । अभिसरति प्राणेशं कृतसङ्केतो' यथास्थानम् ॥१॥" [काव्यलङ्कार १२।४२] १. कृतसंकेता अनू. । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy