SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ दमयन्ती-कथा-चम्पू: तथा वीणायां प्रवीणानि-चतुराणि यानि किन्नरमिथुनानि तेषां यानि गीतानि तानि शृण्वन्आकर्ण यन् । तथा लोचनयोरुत्सवकरान्-हर्षविधायिनो विलासिनीनां-स्त्रीणां ये लास्यविलासा:-नृत्यलीलास्तान् आलोकयन्-वीक्षमाणः । तथा मृदु-मधुरं यथा भवति तथा वाद्यविशेषान्-मुरजादीन् वादयन् । तथा वंशवादनं शिल्पमेषामिति वांशिकास्तैर्वाद्यमाना ये वेणवः-वंशास्तेषां निक्वाणान्-शब्दान् अवधारयन्-मनसा आकलयन् । शिल्पं-कौशलं क्रियाभ्यासपूर्वको ज्ञानविशेषस्तस्येति ठक् । तथा पञ्जरशुकान् पाठयन् । किम्भूतान् पञ्जरशुकान् ? कला-मधुरा गी:-स्वनो येषां ते तान् । क्रमेण च चषकायमाणविकचकमलमध्यमधुपानमत्त इव पुनर्वारुण्याशयाभिभूतभासि मदादिव लोहितायमाने निपतति' मुक्तांशु ऽशुमालिनि, वनान्तरतरु शिरःश्रिताशाखाशिखरेषु३ गलबहलकिञ्जल्कपुञ्जपिञ्जरासु मञ्जरीष्विव विलम्बमानासु दिनकरदीधितिषु, विस्तीर्णशिलावकाशजघनायामुल्लसल्लोहिताधरपल्लवायामस्ताचलवनराजिरेखायामुपरि पतितमवलोक्य रागिणमहर्पतिमीारोषभरादिव जाते जपापुष्पनिचयरुचि५ पश्चिमाशामुखे, मुखरयति नभो निजनीडनिलयनाकूत कूजितजर दण्डजव्रजे, व्रजति सरः संध्या विधिविधित्सया द्विजन्मजनमुनिनिकाये, कालागुरु रसाङ्गराग१० इव श्यामलयति गगनलक्ष्मीमभिसारिकाबन्धावन्धकारे, राज्ञः संध्यावसरमावेद११यन्किन्नरमिथुनमिदमगायत् । क्रमेण-नभोलङ्घनपरिपाट्या अंशुमालिनी-सूर्ये पतति-नीचैर्गच्छति सति । किम्भूते अंशुमालिनि ? चषकं-मद्यपानपात्रमिवाचरच्चषकायमाणं विकचं-सविकासं यत्कमलं-पा तस्य मध्ये-अन्तराले यन्मधुमकरन्दस्तस्य पानेन मत्त इव पुनर्वारुण्याशया-पश्चिमदिशा अभिभूता-पराभूता विच्छाया जाता भाः-कान्तिर्यस्य स तस्मिन् । पुनः किम्भूते? अलोहितः-लोहितोभवन् लोहितायमानस्तस्मिन् । कस्मादिव ? मदादिव । “लोहितादिडाज्भ्यः क्यष्" [पा० सू० ३।१।१३] इति क्यष् । पुनः किम्भूते ? मुक्ताः-त्यक्ता अंशव:किरणा येन स मुक्तांशुकस्तस्मिन् । अन्योऽपि मधुपानेन-मद्यास्वादनेन माद्यति, पुनर्वारुण्याशया-मधुवाञ्छया अभिभूतभा:-निःप्रभः स्यात्, तथा मदात्-क्षीबतया आरक्तः सन् मुक्तांशुक:-निर्वस्त्रो भूमौ पतति । तथा दिनकरदीधितिषु-रविरश्मिषु वनान्तरेषु ____ १. शिल्पं शिल्पं अनू. ।। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy