SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ तृतीय उच्छ्वास: २१३ 1 आस्थानमण्डपः सैव स्थानं - पदं तत् आगात् - आययौ । किं कृत्वा ? शीघ्रं धूपस्य - गन्ध द्रव्ययोगविशेषस्य धूममाघ्राय - शिंघित्वा, तथा आस्ये- वक्त्रे कस्तूरिकाकुङ्कुमकर्पूरद्रवैः कर्बुराणि - शबलानि क्रमुकफलानां यानि शकलानि - खण्डानि तानि निक्षिप्य - निवेश्य । चपुनः शुक्तिवत् शुक्लानि - धवलानि ताम्बूलीदलानि - अहिवल्लीपत्राणि आदाय गृहीत्वा । किम्भूतानि ? वित्रस्त: - भयाकुलो यो मृगतर्णकः - मृगशावस्तस्य यौ कर्णौ तद्वत् कम्राणिमनोज्ञानि, त्रस्तस्य हि मृगशावस्य कर्णौ स्तब्धौ भवतः, ताम्बूलीदलान्यपि तादृशीति भावः । किम्भूतं विनोदास्थायिकास्थानम् ? अपकीर्णानि - इतस्ततो परिक्षिप्तानि यानि कुसुमानि तैर्हारि रम्यम् । पुनः किम्भूतम् ? विस्तीर्णः - विशाल आस्तीर्णः - क्षौमवाससा आच्छादितः स्वर्णमय: हैमो वैडूर्यं - वासवायजं १ पर्यन्ते यस्य स पश्चात् कर्मधारयः, ईदृग्विधः पर्यङ्कः-पल्यङ्को अङ्के - उत्सङ्गस्थानीये मध्ये भागे यस्य तत् । तत्र च सकामकामिनीकमलकोमलकरपुटपीड्यमानपादपल्लवो नर्तयन्नाट्यपरिपाटीपटून्नटान् भावयन्नमृतश्रुतः १ कविवाचः, वाचयंश्चिरंतनकविकथा: २, शृण्वन्वीणाप्रवीणकिंनरमिथुनगीतानि, आलोकयँल्लोचनोत्सवकरारॆन्विलासिनीलास्यविलासान्, वादयन्मृदुवाद्यविशेषान्, अवधारयन्वांशिक वाद्यमानवेणुनिक्वाणान् ", कलगिरः पाठयन्पञ्जरशुकान्, कान्ताकुचकुम्भण्डलावष्टम्भलीलयापराह्नसमयमतिवाहितवान् । तत्र च - आस्थायिकास्थाने सकामाः - समन्मथा या कामिनी तस्याः कमलवत्कोमलो-मृदू यो करपुटौ - पाणिद्वयं ताभ्यां पीड्यमानौ - सम्वाह्यमानौ पादपल्लवौचरणयुग्मं यस्य स, ईदृग्विधः स राजा एवं एवं कुर्वन् कान्ताया यत्कुचकुम्भमण्डलं तस्य या अवष्टम्भलीला आक्रमणविलासस्तया अपराह्नसमयं - मध्याह्नादूर्ध्वं यामद्वयं अतिवाहितवान्-अतिक्रामितवान् । किं कुर्वन् ? नाट्यपरिपाट्यां - नृत्यदर्शनक्रमे ये पटवःअभिज्ञास्तान् नटान्-नर्त्तकान् नर्त्तयन् - ताण्डवयन् । तथा अमृतं - पीयूषं अवन्ति-क्षरत अमृतश्रुतस्ताः कविवाचः - कविगिरो भावयन्तदभिप्रायं गृह्णन् । अत्र भूधातुरभिप्रायार्थः । यदुक्तम् "सत्तायां मङ्गले वृद्धौ निवासे व्याप्तिसम्पदोः । अभिप्राये च शक्तौ च प्रादुर्भावे गतौ च भूः ॥ १ ॥" [ ] तथा चिरन्तनकवीनां-पूर्वकवीनां या: कथा- २ गद्यपद्यमयी वाक्प्रबन्धास्ता वाचयन्- पाठयन् । १. वालवायजं अनू. । २. गद्यपद्यमया अनू. । ३. वाक्यप्रबन्धाः अनू. । For Personal & Private Use Only Jain Education International www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy