SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ २१२ दमयन्ती-कथा-चम्पू: सोऽप्यधीशो भूभुजां भुञ्जानो भोज्यम्, लिहल्लेह्यम्, आस्वादयन्स्वादून्' चूषयञ्चुष्याणि, पिबन्येयानि, आहारमकरोत् । तथा हीति । तदेव दर्शयति भक्ताः-प्रसादकास्तस्य राज्ञो भक्तं-ओदनम् । तथा मुदं गच्छन्ति-प्राप्नुवन्तीति मुद्गाः, मुगान्-हरितान् । तथा मोदयन्ति-हर्ष जनयन्तीति मोदकाः, मोदकान्-लड्डुकान् । तथा न शोके वर्ततेऽभीक्ष्णमिति अशोकवर्ती-सदाहृष्टः सनीयको येषां यासां वा, अशोकवर्तिन्यः-अशोकवर्तीमण्डिकाभिधपक्वान्न: विशेषान् । तथा समो अंस:-स्कन्धो यासां ताः समांसाः, मांसं-पललं । तथा नाना-अनेकप्रकारा आशा-वाञ्छा यासां ताः नानाशाकाः, "शेषाद्वा" [पा० सू० ५।४।१५४] इति कः । शाकानि-तन्दुलीयकादीनि । तथा व्यञ्जना:-विशिष्टाञ्जनाः, व्यञ्जनानि-तेमनानि । तथा अपरास्तु काश्चित् अक्षीणि ईरयन्तिविभ्रभात् कम्पयन्ति यास्ता अक्षीरास्तथाविधाः, क्षीरं-दुग्धम् । तथा काश्चित् अघस्यपापस्य अरिकाः-शत्रुरूपाः, घारिका: परिवेषयामासुरिति क्रिया. सर्वत्र योज्या । अपि शब्दो विरोधे-या अक्षीरा:-क्षीररहितास्ताः कथं क्षीरं परिवेषयन्ति । तथा या अघारिका:घारिकारहितास्ताः कथं घारिकाः परिवेषयन्तीति । तुल्यार्थे विरोधः, परिवेषणं भोज्यस्य भोजनोत्क्षेपणम् । सोऽपि भूभुजां-शेषराजानां अधीश:-भीमः भोज्यान् भक्तादीन् भुञ्जानः-खादन्, तथा लेा-मध्वादि लिहन्, तथा स्वादून् मृष्टान् शर्करादीन् आस्वादयन्, तथा चूष्याणिकम्राम्रादीनि चूषयन्, “चूष पाने", [पा० धा० ६७३] तथा पेयानि-पातुं योग्यानि द्राक्षापानीयादीनि पिबन् आहारं-खादनमकरोत् । अनन्तरमाचम्य चन्दनेनोद्वर्तितपाणिपल्लव: शीघ्रमाघ्राय धृप-धूमम्, आस्ये निक्षिप्य कस्तूरिकाकुङ्कमकर्पूरकर्बुराणि' क्रमुकफलशकलानि', आदाय च वित्रस्तमृगतर्ण कपकर्ण कम्राणि शुक्तिशुक्लानि ताम्बूलीदलानि, तस्मात्प्रदेशादपरमपकीर्ण कुसुमहारि विस्तीर्णास्तीर्णस्वर्णमयवैदूर्यपर्यन्त पर्याङ्कमाप्तैः सह विनोदास्थायिकास्थान °मगात् । अनन्तरं-भोजनकरणात् पश्चात् आचम्य-आचमनं गृहीत्वा शुचीभूय चन्दनेन उद्वर्तितौ-आमृष्टौ पाणिपल्लवी येन सः, ईदृग्विधः सन् राजा तस्मात्प्रदेशात्-भोजनस्थानात् अपरं-अन्यत् आप्तैः-यथाभूतवादिभिः सेवकैः सह विनोदस्य क्रीडाया या आस्थानिका Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy