________________
२११
तृतीय उवासः
अनन्तरं-वस्त्रालङ्कारपरिधानं मध्याह्नसमयोचितधर्म्यकर्मादि च विधाय पश्चात् जनस्य-लोकस्य वल्लभ:-दयितः स-नृपो भोजनसमये-भोजनावसरे भोजनस्थानस्य या वेदी-संस्कृताभूमिस्तां गतवान्-प्राप्तवान् । किम्भूतः सः ? आवर्त्तिता-मूषायां तापिता ये अनेके स्वर्णस्य वल्ला:-तौल्यमानविशेषाः तद्वद् भा-कान्तिर्यस्य सः । पुनः किम्भूतः? सभयाः-सत्रासाः आगता ये जनास्तच्छरणं प्रपन्नास्तेषां जनितः-कृतो रक्षारम्भःपालनोपक्रमो येन सः । पुनः किम्भूतः ? अरं-अत्यर्थं जनानां स्थानं-अवस्थानं वेत्तीत्येवंशीलो जनस्थानवेदी लोकस्योचितासनज्ञः । किम्भूतां भोजनस्थानवेदीम् ? मयेनदैत्यवर्द्धकिना निर्मितया-कृतया तया-प्रतीतया धर्मसुतसभया-युधिष्ठिरसंसदा सधर्माणंसदृशीम् ।
___ तस्यां च बहुविस्तीर्णस्वर्णभोजनपात्रपत्रशङ्खशुक्तिसनाथायामुपविष्टस्यास्य क्रमेण परिकरमाबध्य गाढमाढौकन्त स्वस्य स्वस्यानुहारिणोऽन्नविशेषानादाय सूपकाराः सूपकाराङ्गनाश्च ।
तस्यां च-भोजनस्थानवेद्यां उपविष्टस्य-निषण्णस्य अस्य-राज्ञः सूपकारा:औदनिकाः सुष्ठ, उपकारकाश्च सूपकाराङ्गनाश्च तत्स्त्रियः परिकरमानध्य-जघने पटीवेष्टिं कृत्वा क्रमेण-यथा समयोचितभोज्यानयनपरिपाट्या गाढं-भृशं स्वस्य स्वस्य अनुहारिण:अनुकारिणः अन्नविशेषान् आदाय आढौकन्त-प्राप्ताः । यादृक् यादृक् स्वस्य नाम तादृक् तादृक् अभिधानं अन्नविशेषं गृहीत्वोपस्थिता इत्यर्थः । किम्भूतायां तस्याम् ? बहुविधानिगुरुलघुत्वभेदात् अनेकधा विस्तीर्णानि-पृथूनि यानि स्वर्गस्य-हेम्नो भोजनार्थपात्राणि पत्राणि च-पलाशादीनां पर्णानि शङ्खाश्च-कम्बुपात्राणि शुक्तयश्च-मुक्तास्फोटपात्राणि तैः सनाथासहिता तस्याम् ।
अथ ते कथं स्वस्वनामानुकारि भोज्यमानीतवन्तः ? इत्याह - तथाहि -
भक्तास्तस्य भक्तम्, मुद्गा मुद्गान्, मोदका मोदकान्, अशोकवर्तिन्योऽशोकवर्तीः, समांसा मांसम्, नानाशाकाः शाकानि, व्यञ्जना व्यञ्जनानि अपरास्तु काश्चिदक्षीरा अपि क्षीरम्, अघा रिका अपि घारिकाः परिवेषयामासुः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org