________________
२१०
किं बहुना किम्बहुना-किं बहुक्तेन—
-
तास्तास्तं स्नपयामासुरङ्गना: कुम्भवारिणा । एत्य याः स्युः प्रसन्नेन द्युलोकात्कुं भवारिणा ॥ २० ॥
ता इति । भवस्य-संसारस्य अरि:- शत्रुः शिवस्तेन भवारिणा प्रसन्नेन हेतुना द्युलोका:स्वर्गलोकाः कुं-पृथ्वीमेत्य - आगत्य याः स्युः - भवेयुः । तास्ताः- स्त्रियः कुम्भवारिणा - कलशोदकेन तं-राजानं भीमं स्नपयामासुः - स्नपितवत्यः । ईश्वरेण प्रसादं विधाय स्वर्गाद् यादृश्यः सुराङ्गना अवतारिता भवति तादृश्यः सुरूपास्तास्तं स्नपयामासुरित्यर्थः ॥ २० ॥
दमयन्ती - कथा - चम्पू:
Jain Education International
अथ विमलदुकूल प्रान्तनिर्नीरिताङ्गः परिहितसितवासाः स्वल्पमङ्गल्यभूषः । शुचिरुचितविधिज्ञः स स्वयं स्वस्थचेता: २ कुशकुसुमकरः ३ सन्कर्म धर्म्यं चकार ॥ २१ ॥
अथेति । अथ-स्नानानन्तरं विमलदुकूलप्रान्तेन निर्मलक्षौमाञ्चलेन निर्नीरितंनिर्जलीकृतं अङ्गं यस्य स । तथा परिहितं सम्वीतं सितं - धवलं वासः - दुकूलं येन सः । तथा स्वल्पा:-स्तोकाः मङ्गल्यभूषा: - रुचिरभूषणानि यस्य स तथाविधः । स राजा भीम, कुश:-दर्भ: कुसुमानि च - - पुष्पाणि तानि निकरे यस्य स तथाविध, सन् स्वयं-आत्मना धर्म्यं-धर्मादनपेतं धर्मसम्बन्धिकर्मक्रियां माध्याह्निकसन्ध्योपासनादि चकार-कृतवान् । यतः किम्भूतः सः ? शुचि- पवित्रं रुचितं - अभीष्टं विधि- अनुष्ठानं जानातीति शुचिरुचितविधि:, यो हि विधिज्ञो भवति स एव धर्म्यं कर्म कुरुत इति । यद्वा, शुचिः - शुद्धः उचितविधिज्ञश्चयोग्यकृत्यवित् । पुन: किम्भूतः ? स्वस्थं - अव्याकुलं चेतो यस्याऽसौ स्वस्थचेताः । "मंगल्यो रुचिरे स्वच्छे त्रायमाणे मसूरके?" [३।५३०] इत्यनेकार्थः । धर्म्यमिति "धर्मपथ्यर्थन्यायादनपेते" [पा० सू० ४|४|१२] इति यत् ।। २१ ।।
अनन्तरमावर्त्तितानेकस्वर्णवल्लभो वल्लभो जनस्य भोजनस्य समये स मयेन निर्मितया तया सधर्माणं धर्मसुतसभया सभयागतजनजनितारक्षारम्भोऽरं ५ भोजनस्थानवेदी६ गतवान् ।
१. मसूरके बिल्वे अनू. ।
For Personal & Private Use Only
www.jainelibrary.org