SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ २०९ तृतीय उवासः ईदृश्यो वर्तन्त इति क्रिया सर्वत्र योज्याः । आमलकचूर्णं हि स्नानीयम् । का इव ? समुद्रवेला इव-अब्धिजलवृद्धय इव । किम्भूताः ? मकरैः सह उत्क्षिप्तं अमलं कं-जलं यकाभिस्ताः । तथा काश्चित् भृङ्गारभरभुग्नदेहाः भृङ्गार:-कनकालुका तस्य यो भर:भारस्तेन भुग्नः-कुब्जीभूतो देहो यासां ताः । का इव ? तरुणाः-प्रत्यग्राः यास्तरुमञ्जर्यस्तासां राजय इव । ताः किम्भूताः भृङ्गाणां भारः ?-आगमनं तस्माद यो भरःभारस्तेन भुग्नः-अवनतो देहो यासां ताः । तथा काश्चित् भाजनं-पात्रं तत्रोद्भूलनंचूर्णविशेषस्तेन सह-युक्तः करः-पाणिर्यासां ताः, सचूर्णपात्रपाणय इत्यर्थः । 'सभाजनोद्वलन' पाठे तु उद्वलनं-उद्वर्त्तनं । का इव ? अन्यायकारिण्य इव-अनीतिविधायिन्य इव । किम्भूतास्ता: ? अवाच्यवचनैः सभाजनस्योद्भूलनं-मालिन्यं कुर्वन्ति यास्ताः । “उद्वलन" पाठेतु सभाजनादुद्वलनं-अपसरणं कुर्वन्तीति । तथा काश्चित् उत्कृष्टानि अद्भुतानि उद्धृतानिउत्क्षिप्तानि गन्धधारीणि-सौरभ्ययुक्तानि तैलानि यकाभिस्ताः । का इव ? मलयाचलस्य भूमय इव । किम्भूतास्ताः ? उत्कृष्टगन्धा धारिता-धृता एता-औषधिविशेषा यकाभिस्ताः । तथा काश्चित् चामरं-प्रकीर्णकं धारयन्तीत्येवंशीलाश्चामरधारिण्यः । का इव ? देवलोकस्य वसतय इव-गृहा इव । ताः किम्भूताः ? चः-पृथक् अमरान्-देवान् धारयन्तीति अमरधारिण्यः । तथा काश्चित् विशिष्टो भ्रमः-चलनं तेन सह-युक्ता या कङ्कतिकाकेशमार्जनी तस्याः उपान्तेन-प्रान्तेन आ-समन्तात् केशानां प्रसादनं-विरलीकरणं आरचयन्त्यः-कुर्वन्त्यः । का ईव ? पुरन्दरस्य-इन्द्रस्य पुरन्ध्रिका इव-स्त्रिय इव । किम्भूतास्ता: ? सविभ्रमं-सविलासं कं-मुखं यत्र एवं यथा भवति तथा कतिकोपान्तेकियत्कोपविगमे नाकेशस्य-दिवस्पतेः प्रसादं कुर्वन्त्यः । कतीति पुरन्ध्रिविशेषणं वा । तता काश्चित्कामिन्यः दर्शिता विविधा पादपालि:- पादमर्दनावसरो यकाभिस्ताः । पालिं पर्यायावसरः । यदजयः-"पालिः कर्णलतायां स्यात् प्रदेशे पंक्तिचिह्नयोः । पृष्टश्मश्रूस्त्रियामश्रौ पर्यायावसरे क्रमे ।" [ ] का इव? विन्ध्याटव्य इव । ता: किम्भूताः ? दर्शिताः विविधाः पादपानामालयः-पंक्तयो यकाभिस्ताः । तथा काश्चित् कृतं प्रकर्षेण हस्तमलनं यकाभिस्ताः । का इव ? राघवसेना इव-रामचम्वा इव । ताः किम्भूताः । कृतः प्रहस्तस्य-रावणप्रतिहारस्य मलनं-अभिभवो यकाभिस्ताः । तथा काश्चिद् बाहुलतां-भुजलतां संवाहयन्त्यः- प्रयत्नेन मर्दयन्त्यः । “वेल वाह्न प्रयत्ने" [ ] । का इव? व्याकरणवृत्तय इव । ताः किम्भूताः ? बाहुलतां-बाहुलवं, संवाहयन्त्यःसम्यक्प्रापयन्त्यः । "वह प्रापणे, [पा० धा० १००४] सम् पूर्वकः" । १. इव श्रेणय इव अनू. । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy