SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ २०८ दमयन्ती-कथा-चम्पू: इ:-कामोऽस्येति कृत्वा हे सदृशे !-कन्दर्पप्रतिम ! अथवा हे नृप ! तव मज्जनभवने सविता-रविर्ना भाति परं केवलं अश्री:-निष्प्रभ एवेत्युक्तिलेशः । यतः किम्भूते मज्जनभवने ? निशायां यन्नमस्तस्य सदृशे-प्रद्योतनानुद्योते हेतुरयम् । तथा चित्राणि-अद्भुतानि आभरणानि यत्र तत्तथाविधे । चित्रं खे तिलकेऽद्भुते । आलेखे कबुरे" [२।४३०] इत्यनेकार्थः । नभःपक्षे, चित्रैव आभरणं यस्य तत्तथा तस्मिन् । पुनः किम्भूते ? वरा-श्रेष्ठा रजनी-हरिद्रा तां कुर्वन्ति-संस्कुर्वन्तीति रजनीकरा:गन्धकारकास्तैः कान्तं-कमनीयं तस्मिन् । नभःपक्षे तु, वरः-दीप्तिमान् सूर्याभावाद् यो रजनीकरः-शशी तेन कान्ते-मनोज्ञे ॥ १९ ॥ अनन्तरमुत्तुङ्गकनककुम्भशोभास्पर्धिकुचमण्डलार्धबद्धौत्तरीयांशुकपरिकराः, सस्मर स्मितविकारकारिण्यः, दर्शितससीत्काराङ्गमलन विन्यासाः, काश्चित्समुद्रवेला' इव समकरोत्क्षिप्तामलकाः, काश्चित्तरुणतरुमञ्जरीपराजय इव भृङ्गारभरभुग्नदेहाः, काश्चिदन्यायकारिण्य इव सभाजनोद्धलनकराः, काश्चिन्मलयाचलभूमय इवोत्कृष्टगन्धधारितैलाः, काश्चिद्देवलोकवसतय इव चामरधारिण्यः, काश्चित्पुरंदरपुरंध्रिका इव सविभ्रमकङ्कतिकोपान्तेनाकेशप्रसादनमारचन्त्यः, काश्चिद्विन्ध्याटव्य इव दर्शितविविधपादपालिकाः, काश्चिद्राघवसेना इव कृतप्रहस्तमलनाः, काश्चिद्वचाकरणवृत्तय इव बाहुलतां संवाहयन्त्यः, मज्जननियुक्ताः कामिन्यो राजानं स्नपयामासुः । अनन्तरमिति । अनन्तरं-स्नानपीठनिषदनात् पश्चात् उत्तुङ्गौ-उन्नतौ यौ कनककुम्भौसुवर्णकलसौ तयोः शोभां-श्रियं स्पर्द्धते-संह्यष्यत इत्येवंशीले ये कुचमण्डले-पयोधरौ तयोर॰ बद्धः उत्तरीयांशुकेन-उपरिवस्त्रेण परिकरः-पर्यस्तिकाभिः स्ताः, जघने पटीवेष्टिं कृत्वेत्यर्थः । मज्जने-स्नाने नियुक्ताः-अधिकृताः कामिन्यः राजानं-भीमं स्नपयामासुःमज्जयन्तिस्म अस्नपयन् । “परिकरः पर्यङ्कपरिवारयोः" [४।२७४] इत्यनेकार्थः । किम्भूताः कामिन्यः ? सस्मरः-समन्मथो यः स्मितविकारः-हास्यविक्रिया तं कुर्वन्तीत्येवंशीलाः सस्मरस्मितविकारकारिण्यः । तथा दर्शितः-प्रकटितः ससीत्कार:-सीत्कारसम्बद्धः अङ्गमलनस्य शरीरमर्दनस्य विन्यासः-रचना याभिस्ताः । तासां मध्ये काश्चित्कामिन्यः समेन-अविषमेण करेण उत्क्षिप्तानि-उद्धृतानि आमलकानि याभिस्ताः । १. सदृशो अनु. । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy