________________
२०७
तृतीय उच्चासः
गत्वा च पृथ्वीवलयमिव पयःपूर्णसमुद्रद्रोणीकम्, केदारोदरमिव सकलशालिस्थानम्, श्रोत्रियद्विज भवनमिव सकलधौतपट्टम्, अतिरमणीयं मज्जनभवनमवतारिताभरणः स्नानपीठे निषसाद ।।
ईदृशं मज्जनभवनं-स्नानगृहं गत्वा च अवतारितानि अङ्गेभ्योऽपनीतानि आभरणानि येन स ईदृग्विधः स-राजा स्नानपीठे निषसाद-निषण्णः । किम्भूतं गृहम् ? पयसा पूर्णा समुद्रा-अङ्किता द्रोणीजलपात्री कुण्डिका यत्र तत् पयःपूर्णसमुद्रद्रोणीकं । स्नानीयजलादिषु मुद्रा दीयत इति राजधर्मः । कमिव ? पृथ्वीवलयमिव-भूमण्डलमिव तम् । किम्भूतः ? पयोभिः पूर्णः समुद्रः-अब्धिद्रोणी च यत्र तम् । “नघृतः" [पा० सू० ५।४।१५३] इति बहुव्रीहौ कप् । द्रोणी देशविशेषः, यद्विश्वः-"द्रोणी स्यान्नीवृदन्तरे" [णान्त द्वि०, ८]। पुनः किम्भूतम् ? कलशा:-कुम्भास्तेषामालिः-पंक्तिस्तया सह-युक्तानि स्थानानि-प्रदेशा यत्र तत् । किमिव ? केदारोदरमिव-क्षेत्रमध्यमिव । तत् किम्भूतम् ? सकलशालीनांकलमप्रभृतीनां स्थानं-पदम् । पुनः किम्भूतम् ? सह कलधौतस्य-हेम्नः पट्टेन-आसनेन वर्तत इति सकलधौतपढें । किमिव ? श्रोत्रियद्विजन्मनां-छान्दसब्राह्मणानां भवनमिवगृहमिव । तत् किम्भूतम् ? सकला:-सर्वे धौता:-क्षालिताः पट्टा:-आसनानि यत्र तत् । पुनः किम्भूतम् ? अतिरमणीयं-मनोहरम् ।
आसन्नस्थितश्चास्यावसरपाठकः२ पपाठ ॥
यदा च राजा तत्र निषसाद तदैव अस्य-राज्ञः आसन्नस्थितः-निकटप्रदेशस्थश्च अवसरपाठक:-मागध: पपाठ-उवाच ।
'वर रजनीकरकान्ते ! चित्राभरणे ! निशानभःसदृशे ।
तव नृप ! मज्जनभवने सवितानाभाति परमश्रीः ॥ १९ ॥ वरेति । हे वर !-प्रधान ! हे नृप ! तव मज्जनभवने-स्नानसदने सवितानासोल्लोचा परमश्रीः-उत्कृष्टलक्ष्मी ति-द्योतते । अथ नृपसम्बोधनानि-रजनीकरस्यचन्द्रस्येव कान्तिरस्येति रजनीकरकान्तिस्तस्य सम्बोधने हे रजनीकरकान्ते !-चन्द्रद्युते ! तथा रणे-युद्धे चित्रः-व्याघ्रस्तद्वद् आभा-शोभा यस्य स चित्राभस्तस्य सम्बोधने हे रणे चित्राभ ! यथा व्याघ्रः शूरस्तथा त्वमपि शूर इत्यर्थः। तथा निशानैः-तेजस्विभिः बभस्तीति निशानभास्तस्य सम्बोधने हे निशानभ !-सुभटरम्य !, अथवा निशानं-निर्मलं यथा भवति तथा बभास्ति-शोभते । इति, र्भसलि द्युतौरवैदिकः [पा० धा० १०००] । तथा सदृशः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org