SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ तृतीय उच्छ्वासः २०५ कुटुम्बके, वकवलयवलक्षान्क्षिपति दिक्षु दीप्रान्दीप्तिदण्डांश्चण्डरोचिषि, विसृज्य२० परिजनं राजा मज्जनभवनायोदचलत् । स्थित्वेति । काश्चित्कालकलाः कतिचिन्समयांशान् तस्य-मुनेर्या कथावाक्यप्रबन्धस्तया या अवस्था-अवस्थानं तया स्थित्वा च काञ्चित्समयं तत्कथाभिरतिवाह्य इतीति सति परिजनं-परिच्छदं विसृज्य स्व-स्वमन्दिरं प्रति मुक्त्वा राजा-भीमो मज्जनभवनाय मध्याह्नस्नानसमये उदचलत्-प्रतस्थे । क्व सति ? भेर्याः सखा भेरिसखं मध्याह्ने गम्भीरं-मधुरं भेरीसखं-भेरीसहितं यच्छंखयुगलकं-कम्बुयुग्मं तस्मिन् रणति-ध्वनति सति । किम्भूते ? नव:-अदृष्टत्वात् सजलो जलधरः-मेघस्तस्य यो रवः-गजितं तद्वद् रमणीयं-श्रवणसुखकारि यत्तत्तस्मिन् । रणभेरीसखशङ्कयुगस्य नवमेघरवानुकारित्वात् । अतएव पुनः किम्भूते ? कलापिकुलस्य-मयूरवृन्दस्य उत्कण्ठां-रणरणकं करोतीत्येवंशीलं कलापिकुलोत्कण्ठाकारि तस्मिन् । पुनः क्व सति ? हंसकुले नवनलिनीनां-नवकमलिनीनां यानि च्छदानि-पत्राणि तेषां यच्छायामण्डलं आतपाभाववृन्दं तद् विशति-प्रविशति सति । किं कृत्वा विसकाण्डानां-कमलनालानां कवलनं-भक्षणं अपहाय-त्यक्त्वा । किम्भूते हंसकुले ? तीव्रतर:-अत्युग्रो यस्तपनतापः-सूर्यघर्मस्तेन ताम्यन्त्यः-ग्लानिं प्राप्नुवत्यस्तनवः-शरीराणि यस्य तत्तथाविधे, अतएव छायाश्रयम् । पुनः किम्भूते ? उपवनेवनसमीपे या दीर्घिका:-वाप्यस्तासामवतंस इव-शेखर इव विभूषकत्वाद् यत्तत्तथाविधे । तथा षट्चरणचक्रवाले-मधुकरवृन्दे कुमुदानि च-श्वेतोत्पलानि कुवलयानि च-नीलकमलानि अम्भोजानि च-सामान्यकमलानि तेषां यः पत्रपुज्जः-दलसमूहस्स एव पञ्जरं तस्यान्तरंमध्यं अनुसरति-गच्छति सति । तथा परिहृतं-त्यक्तं रवितापयोगादुष्णं मधुमकरन्दो येन तत्तथाविधे । तथा मुकुलितौ-संकोचितौ तापभयादेव पक्षपुटौ-पक्षितिद्वयं येन तत्तस्मिन् । तथा पिपासातुरा:-तृषार्ता ये तुरङ्गमास्तेषु पानीयपानाय बन्धनादि विमुच्यमानेषु-छोट्यमानेषु सत्सु । किम्भूतेषु पिपासातुरतुरङ्गमेषु ? चटुलैः-चञ्चलैः अग्रिमखुरशिखरैः-अग्रिमशफाग्रैरुल्लिखितं-विदारितं भूमण्डलं यैस्ते तथा तेषु । तथा खण्डितं-विदारितं अखर्व-दीर्घ यद् दूर्वानालं तद्वन्नील:-कृष्णो घुरघुरायमाणः-घुरघुररवं कुर्वन् घोणाकोण:-नासाग्रभागो येषां ते तथा तेषु । “घुरत् भीभार्थशब्दयोः इदुदुपान्त्याभ्यां किदिदुतौ चेति अः प्रत्ययः सरूपे च द्वैरूपे भवतः" [ ] इत्युणादिवृत्तौ । पुनः केषु सत्सु ? सेवायैनृपपर्युपास्त्यै आगता ये राजकुञ्जरास्तेषु मज्जनाय-स्नानाय सज्जितेषु-सावधानीकृतेषु सत्सु। किम्भूतेषु राजकुञ्जरेषु ? घर्मेन-तापेन घूर्णितेषु-घूर्णायमानेषु “घुण घूर्ण भ्रमणे" १. कंचित् अनू. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy