SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ दमयन्ती - कथा - चम्पू: वियतीति । अथ - अनन्तरं तस्मिन् वरप्रदातरि मुनीन्द्रे दमनके वियति नभसि गतवति सति क्षितिपति: - भीमो विस्मयेन - आश्चर्येण उत्तानिते - अनिमीलमुच्चैः कृते अक्षिणीनेत्रे येन स तथाविधः सन् स्थाणोः - स्तम्भस्य सन्धा - मर्यादा तां दधान:- बिभ्रत् अवतस्थेस्थितः । विस्मयेन निश्चलाकृतित्वान्नृपस्य स्थाणोरुपमानम् । निःक्रियत्वात् मन्ये स्थाणुरेवायमवस्थित इति । " सन्धा स्थितिप्रतिज्ञयो: " [२।२५६] इत्यनेकार्थः । किम्भूते मुनीन्द्रे ? विशदा - अमला या विद्युत्-सौदामनी तद्वत् लोललीलावान्' - चपलविलासवान् भवन् लोलं लीलायमानो यः स विशदविद्युल्लोललीलायमानस्तस्मिन् यादृक् क्षणिको विद्युत्झात्कारो दृश्यते तादृक् अतितेजस्वित्वान्मुनिरपि क्षणं यावद् दृश्यते इति भावः । लीलायमानेत्यत्र लीलाशब्दात् तद्वति वर्तमानादायि: । पुनः किम्भूते ? स्फुरन्ती - दीप्यमाना उर्वी - पृथुला परिवेषाकारा - परितः परिसर्पिणी कान्ति: - देहदीप्तिर्यस्य स तस्मिन् ॥ १८ ॥ २०४ स्थित्वा च तत्कथावस्थया ३ काश्चित्कालकलाः कलापिकुलोत्कण्ठाकारिणि रणति नवजलधररवरमणीये मध्याह्नगम्भीरभेरीसखे' शङ्खयुगलके ६, विशति बिसकाण्डकवलनमपहाय तीव्रतरतपनताप" ताम्यत्तनुनि नवनलिनीछदच्छायामण्डलमुपवनदीर्घिकावतंसे हंसकुले, 'कुमुदकुवलयाम्भोजपत्रपुञ्जपञ्जरान्तरमनुसरति परिहृतोष्णमधुनि, मुकुलितपक्षपुटे षट्चरणचक्रवाले, चटुलाग्रिमखुर'शिखरोल्लिखितभूमण्डलेषु१° खण्डितखर्व ११दूर्वानाल१२ नीलघुरघुरायमाणघोणाकोणेषु विमुच्यमानेषु पिपासातुरतुरंगमेषु, घर्मविघूर्णितेषु १३ ससूत्कारकरविमुक्तसीकरासारवर्षणा १४र्द्विताङ्गणेषु मज्जनाय सज्जितेषु सेवागतराजकुञ्जरेषु, क्रीडागिरिसरितमवतार्यमाणेषु लीलामृगमिथुनेषु पयोभिः पूर्यमाणासु पञ्जरपक्षि१५पयःपानपात्रीषु, उद्यानारघट्टतटीं टीकमानासु, कोयष्टिमयूरमण्डलीषु, क्रीडासरः सरत्सु संगीतश्रमखिन्नकिन्नरेषु १६ कूपकूलकुलायकोणकूणितेष्वातपातङ्काकुलकलविङ्केषु, भवनवनवापीपुलिनपालिपांसुपटलमुत्तप्तमपहाय शीतल १७ शैवलावलिं श्रयति तरलितन, क्रेंकारयति १८ क्रौञ्चचकोरचक्रवाकचक्रे १९, क्रीडाप्ररोपितप्राङ्गणप्रान्ततरुशिखरमध्ये मध्याह्नबलिपिण्डाय पिण्डिते क्रेंकारयति काकवयसां कर्णकटु , , १. अलोललीलावान् लोललीलावान् अनू. । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy