________________
तृतीय उच्छ्वासः
२०३ बाहुरालयः-आश्रयो यस्य तदोषालयम् । यद्विश्व:-"दोषा रात्रौ भुजेऽपि य" [षान्तद्वि० ७]। पक्षे दोषा:-अवद्यानि तेषामालयो यत्तत् दोषालयम् । तथा इदं काञ्चीदाम-मेखला जघने भवं जघन्यं यत्पदं स्थानं तदाश्रयो यस्य तत् जघन्यपदाश्रयं, जघनविभूषकमित्यर्थः । पक्षे, जघन्यं-गर्हितं यत्पदं तत् आश्रयो यस्य तत्, गर्हितस्थानावस्थितमित्यर्थः । तथा इदं नूपुरं सदा शश्वत् पाद:१- पादावधिष्ठानं आश्रयो यस्य तत् सदा पदाधिष्ठानम् । पक्षे, सतामप्यापदां आ-समन्तात् अधिष्ठानं-नगरं । उपसर्गात् "सुनोति सुवति स्यति स्तौति स्तोभति स्थासे नयसे धसि च सञ्जस्वञ्जाम्" [ ] इति । अधेरुपसर्गात् स्थः[अधेरुपरिस्थम् पा० सू० ६।२।८८]सस्य षः । आपदां-आधेश्च स्थानमिति तु वाक्ये निरुपसर्गत्वात् षत्वं दुर्लभमिति । प्रकृतेरलङ्कारस्य वर्णनं, गौणवृत्त्या दूषणम् । तस्मादेवं दोषयुक्तोऽलङ्कारो भवद्विधानां-युष्मादृशानामेव राजते-भाति, नाऽस्माकं यतीनाम् । यतयो हि चारित्रमण्डनाः । नर्मणि तु अलं-अत्यर्थं कारः- राजग्राह्यभागस्त्वादृशीनामेव राजपत्नीनां संगच्छते नास्माकम् । वनवृत्तीनां लोकस्योपकुर्म एव वयम् । न कुतोऽपि किञ्चित्प्रति गृह्णीम इति भावः । “कारो बलौ वधे यत्ने हिमाद्रौ निश्चये यतौ ।" [२।४१२] इत्यनेकार्थः । बलिः-राजग्राह्यो भाग् ।३ इयं च परिमलं-आमोदं वहतीत्येवंशीला परिमलवाहिनी सुगन्धिः, तथा निबद्धः-सञ्जातो मधुकराणामालापो यत्र ईदृशी सभृङ्गालापा माला-स्रक् । चीनं वासश्च-अंशुकं तदैव उचितं-युक्तं, नाऽस्माकं, यत्परितो मलं-पापं वहति या सा परिमलवाहिनी मुनीनां हि उपादीयमाना माला पापकारिणी भोगाङ्गत्वात् । तथा निबद्धमधुना-समवेतसुरया कराला-रौद्रा एवंभूता असौ स्रक, अपाचीनं-निकृष्टं वासः । इति अनेकधा-अनेकप्रकारया श्लिष्टालापलीलया-सङ्गश्लेषोक्तिविलासेन काश्चित् कालकला:-कियतः अतिवाह्य-निर्गम्य करे कलितः-धृतः कमण्डलुः-कुण्डिका येन ईदृशो मुनिः जरठः-चिरोत्पन्नत्वात् परुषो यस्तमालस्तापिच्छस्तद्वन्नीलं कृष्णं अम्बरतलं-गगनं उदपतत्-उत्पपात । किं कृत्वा? मण्डलेश्वरं राजानं-भीमं आपृच्छ्य च-पुनस्तां प्रणतांनम्रीभूतां प्रियङ्गुमज्जरीमापृच्छ्य ।
वियति विशदविद्युल्लोललीलायमाने स्फुरदुरुपरिवेषाकारकान्तौ मुनीन्द्रे । अथ गतवति तस्मिन्विस्मयोत्तानिताक्षः, क्षितिपतिरवतस्थे स्थाणुसन्धां दधानः ॥ १८ ॥
१. पदे अनू. । २. भाग: अनू. । ३. समयांशान् अतिवाह्य अनू. ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org