SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ २०२ दमयन्ती-कथा-चम्पूः इत्यभिहिता' सा प्रियंगुमञ्जरी 'महर्षे समर्षणीयोऽयमेकस्त्यक्त-३ कुलवधू धर्मो नर्मापराधः । स्वीक्रियन्तामेतानि विविधान्यु ल्लसन्मयूखमञ्जरीरचितेन्द्रचापचक्राण्याभरणानि । गृह्यतामिदमिन्दुद्युतिधवलमनलशौचं चीनांशुकपट्ट परिधानयुगलमियं च कुसुममालिका' इत्यभिधायास्यान्यदप्यतिथिसत्कारोचितमुपढौक्य प्रसादनाय प्रणाममकरोत् । इति अभिहिता-उक्ता सा प्रियङ्गज्जरी इति अभिधाय अस्य-मुनेरन्यदपिउक्तव्यतिरिक्तमपि वस्तु अतिथिसत्कारोचितं-आतिथ्यक्रियायोग्यं उपढौक्य-उपादाय प्रसादनाय-मुनि हर्षयितुं प्रणाम-प्रणति अकरोत्-चक्रे । इतीति किम् ? हे महर्षे !-महामुने ! अयमेकस्त्यक्तः कुलवध्वाः-कुलकान्तायाः धर्म-आचारो यत्र ईदृशो नर्मणा-परिहासेन यो अपराधः-मंतुः समर्षणीयः-सहनीयः । अयं परिहासापराधः कुलस्त्रीणामनुचितः, परं भगवद्भिः सोढव्यः । तथा एतानि विविधानि-नानाप्रकाराणि आभरणानि-अलङ्काराः स्वीक्रियन्तां-अङ्गीक्रियन्ताम् । किम्भूतानि आभरणानि ? उल्लसन्ती-विलसन्ती या मयूखमञ्जरी-किरणराजिस्तया रचितं-विहितं इन्द्रचापचक्र-सुरपतिधनुर्मण्डलं यैस्तानि तथा तैः । आभरणानां विविधवर्णरत्नमयत्वात् तच्छविरप्यनेकविधा अत एव इन्द्रचापरचनं तेषाम् । तथा इदं चीनांशुकपट्टस्य-चीनदेशवासोविशेषस्य परिधानयुगलं-अधस्तनोपरितनाच्छादनयुग्मं गृह्यताम् । किम्भूतम् ? इन्दुद्युतिवत्-चन्द्रकान्तिवद्ववलं, तथा अनलेनवह्निना शौचं-पवित्रं । "चीनो देशैणतन्तुषु । व्रीही वस्त्रे" [२।२६७] इत्यनेकार्थः । चपुनः इयं-कुसुममालिका गृह्यताम् । मुनिस्तु ‘गौरमुखि'६, वृत्तमुक्तोऽयं हारः, दोषालयमङ्गदम्. जघन्यपदाश्रयं काञ्चीदाम, सदापदाधिष्ठानं नूपुरम्, अलंकारो भवद्विधानामेव राजते नास्माकम् । इयं च परिमलवाहिनी माला निबद्धमधुकरालापा चीनं वासश्च तवैवोचितम्' इत्यनेकधा श्लिष्टालापलीलयातिवाह्य काश्चित्कालकलाः करकलितकमण्डलुमण्डलेश्वरमापृच्छ्य तां च प्रणतां प्रियंगुमञ्जरी जरठतमालनीलमम्बरतलमुदपतत् ।। मुनिस्तु-दमनकस्तां-एवं वन्दन्तीं प्रत्याह-हे गौरमुखि !-अरुणवदने ! "गौरः श्वेतेऽरुणे पीते विशुद्धे चन्द्रमस्यपि ।" [२।४२५] इत्यनेकार्थः । अयं हारः वृत्ता:-वर्तुला मुक्ताः-मौक्तिकानि यस्मिन् स वृत्तमुक्तः, पक्षे शीलरहितः । तथा इदं अङ्गदं-केयूरं दोषा Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy