SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ २०१ तृतीय उच्छ्वासः तथा यस्याः-भवत्याः आलोचनश्रीः-विवेकसम्पत् प्रमाणा-प्रत्यक्षादिप्रमाणानुपेता सा त्वं बलिन:-बलवतो राज्ञः संश्रये-आश्रये अवलग्ना-अवष्टब्धा सती कस्य-पूज्यस्य अधिक्षेपंतिरस्कारं न करोषि, सर्वस्याऽपि करोष्येव । स्तुतौ तु–यस्यास्तव लोचन श्रीः अप्रमाणा भृत्यादि प्रमाणातिरिक्ता वर्तते । तथा वलयः-उदरलेखास्तासां संश्रयः-आश्रयो अवलग्नंमध्यं यस्या सा वलिविभूषितमध्या, एवंविधा सा त्वं-शुभलक्षणा कस्य आधिक्षेपं आधेःपीडाया अपनोदं न नयसि-न करोषि । तत्-तस्माद्धेतोः हे प्रियङ्गमज्जरि ! अलं-पूर्यताम्, अनेन आलापे-संभाषे आलस्यअभव्यस्य सतश्च-भव्यस्य प्रपञ्चेन-विस्तारेण निन्दास्तुतिरूपेण वाक्येन इत्यर्थः । प्रकृतं प्रक्रियत इति भावः । उक्तयो हि सप्रतिपक्षा भवन्तीति । आल प्रतिषेधे, सतोऽपि प्रतिषेधः। तथाहि "सन्तः सच्चरितोदयव्यसनिनः प्रादुर्भवयंत्रणाः, सर्वत्रैव जनापवादचकिता जीवन्ति दुःखं सदा । अव्युत्पन्नमतिः कृते न न सता नैवासता व्याकुलो, युक्तायुक्तविवेकशून्यहृदयो धन्यो जनः प्राकृतः ॥" [ ] अथवा आलापस्य आलेन-अवस्तुरूपेण सन् योऽसौ प्रपञ्चस्तेनालं निरर्थकत्वात् । यदुक्तम् “यदेवार्थक्रियाकारि तदेव परमार्थसत् ।" [ ] भूयिष्ठ:-प्रचुरो दिवसो गतः । अस्माकं मुनीनां आह्निकं-नित्यक्रिया तस्य समयः-अवसरः समासन्नः-निकटवर्ती । एषा ब्रह्मणां-द्विजानां परिषत्-सभा सीदति-खिद्यते, बहुकालमवस्थानात् । तथा भगवान् अशेषकल्याणानां-समस्तशुभानां पूरणे चिन्तामणिरिव यः सः तथाविधस्तरणिः-सूर्यो गगनमण्डलस्य यन्मध्यं तदारोहति-आश्रयति । नयशोभाजन ! पाठीनहिंसकेत्यादिकस्य मुनीनां प्रतिपादनात् दारुणं-रौद्रं वदनं यस्याः सा तस्या: सम्बोधने हे दारुणवदने ! न अरविं-नक्तं समयं, अपितु सरवि सन्ध्यासमयं मुनयोऽप्यनुपालयन्ति सन्ध्योपासनादिना प्रति जाग्रति । नक्तमित्यनेन सन्ध्या लक्ष्यते । वयमपि मुनयः, ततोऽस्माकं सन्ध्यासमय इत्यभिप्रायः । स्तुतौ तु अरविन्दवत् अरुणं-लोहितं वदनं यस्याः सा तस्याः सम्बोधने हे अरविन्दनयने । नैते मुनयः सन्ध्याकालं अनु-पश्चात् पालयन्ति, अवश्यविधेयत्वात् तत्कालमेवेत्यर्थः । तस्मात् अनुमन्यस्व-अनुजानीहि वयं यामः । १. अप्रमाणा अनू. । २. अरविन्दारुणवदते अनू. । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy