SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ २०० दमयन्ती-कथा-चम्पू: इत्येवं विचार्य तुला-मानकार्युपकरणविशेषस्तां धारयतीति तुलाधारः-वणिजः१ स इव तुला रोपितं तुलितं-समीकृतं फलं-सुखदुःखादि उपकल्पयति-रचयति । यथा तुलाधारस्तुलायां मानं मेयं च वस्तु उभयतो निक्षिप्य तत्तुलितं फलं देयाऽदेयादिरूपं उपकल्पयति, तथा शम्भुर्जनानां शुभमशुभं च वीक्ष्य तदनतिपाति समं फलं सुखदुःखादिकं विधत्ते, स्तोकस्य शुभस्य स्तोकं सुखं, भूयसः शुभस्य भूयः, एवं अशुभस्यापि । तथाहिं' यद्यावद्यादृशं येन कृतं कर्म शुभाशुभम् । तत्तावत्तादृशं तस्य फलमीशः प्रयच्छति ॥ १७ ॥ तथाहीति । एतदेव दर्शयति यदिति । येन असुमता यदिति-यन्नामकं, यावदिति-यावत्प्रमाणं यादृशमितियादृक् स्वरूपं शुभाशुभं कर्म कृतं तस्य प्राणिनः तदिति-तन्नामकं तावदिति-तावत्प्रमाणं तादृशमिति-तादृक् स्वरूपं फलं सुखदुःखादिकं ईश:-शम्भुः प्रयच्छति-ददाति ॥ १७ ॥ अथवा मत्तमातङ्गगामिनि, यस्यास्तवाप्रमाणालोचनश्रीः सा त्वं बलिसंश्रयावलग्ना कस्य नाधिक्षेपं जनयसि । ___तदलमनेनालापालसत्प्रपञ्चेन । गतो भूयिष्ठो दिवसः । समासन्नो ऽस्माकमाह्निकसमय:२ । सीदत्येषा ब्रह्मपरिषद्। । "गगनमण्डलमध्यमारोहति भगवानशेष"कल्याणचिन्तामणिस्तरणिः । अरविन्दारुणवदनेन नक्तं समयमनुपालयन्त्यमी मुनयः । अनुमन्यस्व । यामो वयम्'। अथवेति । पक्षान्तरे । एकः पक्षेस्तु किं मामुपालभस इत्येवं रूप: । द्वितीयस्त्वयंमत्त:-क्षीबो यो मातङ्गः-शबरस्तद्वद् गच्छति-चेष्टतेऽवश्यमिति मत्तमातङ्गगामिनी तस्याः सम्बुद्धौ हे मत्तमातङ्गगामिनि !, यथा मत्तो मातङ्गः अनुचितचेष्टः, तथा त्वमपि क्षीबा यथा स्यात्तथा वादित्वात्, म्लेच्छाभिगमस्त्वनुचितत्वात्तदाख्येयः । स्तुतौ तु-मत्तो यो मातङ्गःहस्ती तद्वद्गच्छतीत्येवंशीला मत्तमात्तङ्गगामिनी तस्याः सम्बोधने हे मत्तमात्तङ्गगामिनि !, १. वाणिजः अनू. । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy