________________
१९९
तृतीय उच्छ्वासः
तपस्विन् ! हि- स्फुटं ते तव सम्बन्धिना कन्यावरप्रदानेन अलं न पर्याप्तं नेष्टमपूर्यत इति यावत् । यतोऽहं पुत्रार्थिनीति । अथवा ताप:- सन्तापस्तत्सहितेन कन्यावरप्रदानेन अलम् । इति निन्दापक्षः ।
स्तुतिपक्षे तु - नयश्च - नीति: शोभा च - लक्ष्मीः नयशोभे ते जनयसीति नयशोभाजनस्तस्य सम्बोधने हे नयशोभाजन ! यगृहमागतोऽसि तस्य नयं शोभां च जनयसीत्यर्थः । तथा कृता कौ - पृथिव्यां टीका - गमनं येन स्वर्गिणाप्यस्मदनुजिघृक्षया इति शेष:, तस्य सम्बोधने हे कृतकुटीक !, तथा कुश:-दर्भः स एव अस्त्रं तद् गृह्णास्यवश्यं कुशास्त्रग्राही, एतेन अदृश्यशत्रूणामपि विघातोक्तिः, तस्य सम्बोधने हे कुशास्त्रग्राहिन् !, तथा वेदना-दुःखं तदर्थमुद्गारः-उच्चारस्तं येन वाक्योच्चारेण परस्य दुःखं उत्पद्यते, तथाविधं वाक्योल्लापं क्वापि नाऽकरोः, एतेन प्रियम्वदत्वोक्तिः । तथा सर्वदा - सर्वकालं नादेयेषु - नदीभवेषु कूलंकूलं प्रति वर्तमानेषु जलेषु - वारिषु रागं- आसक्तिं कुर्वाणः । तथा पाठी- पाठवान्, तथा न हिंसक:-हिंसाशीलः, तथा धिया - बुद्ध्या वर एव अवगम्यसे । अत्र इव शब्दोऽवधारणार्थः। एतेन तीर्थस्थास्णुर्ज्ञानी दयालुश्च । तथा कुरङ्गेषु-मृगेषु प्रीतिं बध्नासि, प्रीत इत्यर्थः । तथा कदम्बैः-कुरबकैर्बहुकदलीकै:- प्रचुररम्भैः पलाशप्रायैः - पलाशबहुलै : कौ - पृथिव्यां जन्म येषां इति कृत्वा कुजन्मान:- भूरुहस्तैः सह संवससि । मुनयो हि मृगनगप्रियाः वनवासित्वात् हे सदाचारशोभनकर्मन् किं अपरं ब्रूमो वयम् । यस्य ते तव विभि:पक्षिभिः रुद्धः-व्याप्तस्तथाविधः पुष्पवान्- कुसुमितो यः कान्तारस्य - विपिनस्य अग:-तरुः स एव प्रिय: । हे तापस ! तत् तस्माद्धेतोः हि: - निश्चितं तेन अनेन कन्यावरप्रदानेन अलंपूर्यते, नान्यत्प्रार्थनीयमित्यर्थः ।
एवमभिहितः सोऽपि तां बभाषे ।
एवं-उक्तप्रकारेण निन्दास्तुतिरूपेण वाक्येन प्रियङ्गुमञ्जर्या अभिहित:-उक्तः सोऽपिमुनिस्तां-प्रियङ्गुमज्जरीं प्रति निन्दास्तुतिरूपेणैव वाक्येन भाषे ।
'दोषाकरमुखि, किं मामुपालभसे । प्रायः प्राणिनामीशः शंभुरेव शुभाशुभं कर्मालोच्य तुलाघार इव तुलितं फलमुपकल्पयति ।
दोषेत्यादि । दोषाणामाकरो मुखं यस्याः सा तस्याः सम्बुद्धौ हे दोषाकरमुखि ! येन एतान् मुनीनपि दूषयसीति । पक्षे, दोषाकरः - चन्द्रस्तद्वन्मुखं यस्याः सा तस्याः सम्बोधने हे दोषाकरमुखि ! किं मामुपालभसे - उपालम्भान् ददासि तर्जयसि । प्राय: - बाहुल्येन प्राणिनामीशः-स्वामी शम्भुरेव शुभाशुभं कर्म आलोच्य एषां शुभं कर्म, एषां अशुभं कर्म
For Personal & Private Use Only
www.jalnelibrary.org
Jain Education International