SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ १९८ अथ मुनेर्निन्दास्तुती नयशोभाजन, कृतकुटीककुशास्त्रग्राहिन्नवेदनोद्गारं कृतवानसि क्वापि । सर्वदानादेयेषु प्रतिकूलवर्तिषु जलेषु रतिं कुर्वाणः पाठीनहिंसको धीवर इवोपलक्ष्यसे । कुरङ्गेषु प्रीतिं बध्नासि । कदम्बैः २ कुरबकैर्बहुकदलीकैः पलाशप्रायैः कुजन्मभिः सह संवससि । दमयन्ती - कथा - चम्पूः किमन्यद् ब्रूमो वयम् । यस्य ते सदाचारविरुद्धः पुष्पवत्कान्ताराग एव प्रियः । तदलमनेन तापसहितेन कन्यावरप्रदानेन ५ इति । नयेति । यशसो भाजनं - पात्रं यशोभाजनं, पश्चान्नयोगस्तस्य सम्बोधने हे न यशोभाजन !-अयशस्विन् ! तथा कृतानि - कृत्रिमाणि न तु वेदवत् अपौरुषेयाणि, तथा कुत्सितटीकानि'-एवं विधानि कुशास्त्राणि गृह्णातीत्येवंशीलः कृतकुटीककुशास्त्रग्राही तस्य सम्बुद्धौ हे कृतकुटीककुशास्त्रग्राहिन् ! यतो हे अवेदवेदपाठरहित ! क्वापि - विद्वत्परिषदि नोद्गारं-उच्चारं कृतवानसि - वक्तुमपि न वेत्सीत्यर्थः । तथा सर्वदा - नित्यं अनादेयेषुअश्रद्धेयेषु सर्वलोकाग्राह्यवाक्येषु वा प्रतिकूलवर्तिषु सदाचारपराङ्मुखेषु जडेषु - मूर्खेषु रतिरागं कुर्वाणः-२विदधन् । " रतिः स्मरस्त्रियां रागे रते " [२।१९४] इत्यनेकार्थः । तथा पाठीनान्-मत्स्यान् हिनस्तीति पाठीनहिंसको धीवर इव - कैवर्त्त इव उपलक्ष्यसे-अवबुध्यसे । धीवरोऽपि किल कूलं- कच्छं प्रति वर्तमानेषु नादेयेषु - नदीसम्बन्धिषु जलेषु - पयस्सु रतिं कुरुते, पाठीनाहारत्वात् । तथा कुत्सितो रङ्गः - वासना येषां तेषु विषयेषु प्रीतिं प्रेम बुध्नासि प्रीतिमान् । तथा कदम्बैः कुमातृकैः कुत्सिता अम्बाः कदम्बाः ताश्च दुश्चेष्टितैः कुर्वन्ति आचक्षते वा इति नामकारितांतादचि सिद्धम् । बहुव्रीहौ तु को: कन्न भवति । तथा कुत्सितो रवो येषां ते कुरवकास्तै:, तथा कुत्सितं अलीकं कदलीकं को: कत् बहु-बहुलं कदलीकं येषां ते बहुकदलीकास्तै:, तथा पलं- पिशितमश्नन्ति ये ते पलाशाः-राक्षसास्तेषां प्रायै:-सदृशैः, तथा कुत्सितं जन्म येषां ते एवंविधैः सह संवससि - वासं विधत्से । किमन्यत्स्वरूपं वयं ब्रूमः, एतदुपालम्भवचनम् । यद्यस्मात् ते - तव पुष्पवतीषुरजस्वलासु कान्तासु राग:- आसक्तिरेव प्रियः - इष्टः । किम्भूतस्तासु रागः ? सदाचारेणसद्वृत्तेन सह विरुद्धः सदाचारविरुद्धः - कुलधर्मानुचितः । तत्-तस्माद्रेतोर्हे तापस ! १. कुत्सितटीकानि - कुटीकानि अनू. । २. विदधत् अनू. । For Personal & Private Use Only Jain Education International www.jalnelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy