SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ दमयन्ती - कथा - चम्पू: वृन्दारका:-देवास्ततो द्वन्द्वस्तेषां वन्दनीयं - नमस्करणीयं पादारविन्दं येषां ते तथाविधाः । तथा परमानन्दस्य यः परिस्पन्दः - चेष्टा तं भजन्त इति परमानन्दपरिस्पन्दभाजः । पुनः किं कुर्वन्तः ? पार्थिवान्-नृपान् पांसूनिव - धूलीरिव । तथा स्त्रैणं - स्त्रीणां समूहं तृणमिव । "स्त्रीपुंसाभ्यां नञ् स्नत्रौ " [ ] भवनादिति समूहे नञ् । तथा धनं निधनं - मरणमिव । तथा भोगान् रोगानिव । तथा लक्ष्मीं श्रियं राजयक्ष्माणं - रोगराजमिव आकलयन्तःअवधारयन्तः, निःस्पृहत्वात् सकलं ? यत्संसारसुखं वैषयिकं सौख्यं तस्माद् विमुखाःपराङ्मुखाः । १९४ तदहमद्यानवद्यस्य भगवन्नभूवं भूम्नो यशोराशेर्भाजनम्, आरूढः पदं श्लाघार्हम्, भागतो गुणिषु गौरवम्, उपलब्धवान्धन्यताम्, संपन्न: पुण्यवतामग्रणीः, जातो जनस्य वन्दनीयः । तुत्-तस्माद्वेतोर्हे भगवन् ! अद्य मगृहागमनेन अहं अनवद्यस्य - अमलस्य भूम्न:प्रत्ययार्था विवक्षया बहो: - बहुलस्य यशोराशेः - कीर्त्तिश्रेणेर्भाजनं - पात्रं अभूवम् । तथा अ श्लाघाईं-श्लाघनीयं पदं स्थानं आरूढ: - आश्रितः । तथा गुणिषु - गुणवत्सु नरेषु गौरवं - गरिमाणं आधिक्यमागतः - प्राप्तः । तथा स्वस्य धन्यतां - पुण्यवत्तां उपलब्धवान् प्राप्तवान् । तथा पुण्यवतां पुण्यात्मनां अग्रणीः- मुख्यः सम्पन्नो जातः । तथा जनस्य - लोकस्य वन्दनीयः - स्तवनीयो जातः । तदित्थमनेकप्रकारोपकारिणां किं ब्रवीमि किङ्करोऽस्मीति पौनरुक्तयं सर्वेषां स्वामिनाम् । केनार्थित्वमित्यनुचितादरो निःस्पृहाणाम् । इदं मे सर्वस्वमात्मीक्रियतामिति स्वल्पोपचारः, स्वाधीनाष्टगुणैश्वर्याणां भवताम् । तथापि प्रणयेन भक्त्या च मुखरितः किंचिद्विज्ञापयामि । तत्-तस्मादित्थं-पूर्वोक्तेन अनेकप्रकारेण यशः प्रापकत्वादिरूपेण उपकर्तुं शीलं येषां ते अनेकप्रकारोपकारिणस्तेषां भगवतां किं ब्रवीमि । अथानुक्तिप्रकारमेवाह-भवतां किङ्करोऽस्मीत्युक्तौ पौनरुक्त्यं - पुनरुक्तता । यतः किम्भूतानां भवताम् ? सर्वेषां स्वामिनःप्रभवस्तेषां सर्वस्वामित्वे सिद्धे मम किङ्करत्वं सिद्धमेव । सर्वपक्षान्तर्भूतत्वात् मम ततः किंकरोऽस्मीत्युच्चारे पौनरुक्त्यम् । तथा भवतां केन वस्तुना अर्थित्वं- याचकता कस्य वस्तुनोऽर्थो विद्यत इत्युक्तौ न उचितः - योग्य: आदरः अनुचितादरः । यतः किम्भूतानां १. अतएव सकलं अनू । भावप्रत्यया अनू. । • Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy