________________
तृतीय उच्छ्वासः
१९५
भवताम् ? निःस्पृहाणां निराकांक्षाणाम् । निःस्पृहाणां भवतां पुरः कस्यार्थो विद्यत इति वाक्यमनुचित्तम् । तथा भवद्भिः इदं मे सर्वस्वं सर्वधनं गजाश्वकोशादि आत्मीक्रियताम्आत्मसाद्विधीयतां इति स्वल्प उपचारः स्वल्पोपचार: - स्तोका पूजेति । यतः किम्भूतानां भवताम् ? स्वाधीनं-स्ववशं अष्टसंख्यगुणानामणिमादीनां ऐश्वर्यं येषां ते तथा तेषां येषां हि अष्टगुणैश्वर्यं भवति तेषां राज्यप्रदानं कियन्मात्रमिति ? तथापि प्रणयेन - प्रेम्णा भक्त्या च मुखरित:-वाचालो जातः सन् किञ्चित् - अल्पं विज्ञपयामि - कथयामि ।
तदेवाह
इदं राज्यमियं लक्ष्मीरिमे दारा इमे गृहाः । एते वयं विधेया वः कथ्यतां यदिहेप्सितम् ॥ १३ ॥
इदमिति । इदं राज्यं, इयं लक्ष्मीः, इम प्रत्यक्षा दाराः - अवरोधजनाः, इमे गृहा:प्रासादाः, एते भगवतां पुरः स्थिताः वयं विधेया विनयस्थां स्म हे भगवन् ! कथ्यतां इह राज्यादौ यत् वः - युष्माकं अभीप्सितं - वाञ्छितम् । एतेन राज्ञो महाशयत्वं द्योतितम् । दारशब्दो भूम्येव प्रयोक्तव्यः । क्वचिद् एकवचनमपि दृश्यते, यथा- "धर्म्म प्रजासम्पन्ने दारे नान्यं कुर्वीत " [ ] इति । गृहशब्दस्तु पुन्नपुंसकः ॥ १३ ॥
मुनिरप्यवनीशस्य विनयमभिनन्द्य स्निग्धमुग्धस्मित' सुधाधवलिताधरपल्लवमब्रवीत्’- ‘उचितमेतद्भवादृशां वक्तु कर्तुं वा ।
राज्ञा एवमुक्ते सति मुनिरपि अवनीशस्य - भीमस्य विनयं -आसनदानादिकमभिनन्द्य-साधुः साधुस्ते विनय इति संस्तूय स्निग्धं दन्तज्योत्स्नया - चकचकायमानं मुग्धं रम्यं यत् स्मितं-ईषद्वास्यं तदेव सुधा - पीयूषं, तथा धवलितः - पाण्डुरितः अधरपल्लवो यत्र कर्मणि, एवं यथास्यात्तथा अब्रवीत् - सहास्यमुवाच इत्यर्थः ।
अथ यदुवाच तदेवाऽऽह - हे राजन् । एतद् भवादृशं महाशयानां इदं राज्यमित्यादिरूपं वाक्यं वक्तुमुचितं - योग्यं तथा एतदासनप्रदानादिरूपमातिथ्यं च कर्तुं विधातुं उचितम् । यतः
उपकर्तुं प्रियं वक्तुं कर्तुं स्नेहमकृत्रिमम् ।
सज्जनानां स्वभावोऽयं केनेन्दुः शिशिरीकृतः ॥ १४ ॥
उपकर्तुमिति । सज्जनानां - साधूनामयं स्वभाव :- प्रकृतिः । क: स्वभाव: ? इत्याह
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org