SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ तृतीय उछासः १९३ दत्वेति । सोऽपि महीपतिः-भीमः तस्मै-मुनये अर्घणीयाय-पूज्याय अर्घजलाक्षतादिकं पूजाविधिं दत्वा भक्त्या स्वहस्ताभ्यां धौतौ-क्षालितौ यौ तौ स्वहस्तधौतौ तयोः पादयोर्जलं ववन्दे ॥ ९ ॥ कृत्वातिथ्यक्रियां सम्यग्विनयं च प्रकाशयन् । तस्याग्रे भूतलं भेजे नोपविष्टः स विष्टरे ॥ १० ॥ कृत्वेति । स-राजा सम्यक् आतिथ्यक्रियां-चरणक्षालनपुष्पादिदानरूपां आवर्जनां कृत्वा विनयं च-अञ्जलियोजनादिरूपं प्रकाशयन् सन् तस्य-मुनेरग्रे विष्टरे-सिंहासने नोपविष्टः किन्तु भूतलं भेजे-शिश्राय ॥ १० ॥ ललाटपट्टविन्यस्तपाणिसंपुटकुड्मलः । नीचैरुवाच वाचं च चञ्चद्दशनदीधितिः ॥ ११ ॥ ललाटेति । च-पुनः स-राजा नीचैः-विनयपुरःसरं वाचं उवाच । किम्भूतः ? ललाटपट्टे-अलिकफलके विन्यस्तं रचितं पाणिसम्पुटरूपं कुड्मलं-मुकुलं येन सः । पुनः किम्भूतः ? चञ्चन्ती-दीप्यमाना दशनानां-दन्तानां दीधितिः-कान्तिर्यस्य सः ॥ ११ ॥ अद्य मे सुबहोः कालाच्छ्लाघनीयमभूदिदम् । त्वत्पादपद्मसंस्पर्शसंपन्नानुग्रहं गृहम् ॥ १२ ॥ अद्येति । हे भगवन् ! अद्य सुबहो:-अतिभूयिष्टात् कालात् मे-मम इदं गृहं श्लाघनीयं-श्लाघ्यमभूत् । किम्भूतम् ? त्वत्पादपद्मस्य यः संस्पर्शः-सम्पर्कः स एव सम्पन्नः-सञ्जातो अनुग्रहः-प्रसादो यस्य तत्तथाविधम् । भगवद्भिः स्वपदन्यासेन मम गृहस्योपर्यनुग्रहः कृत इत्यर्थः । ॥ १२ ॥ यतः समस्त मुनिमनुजवृन्दवृन्दारकवन्दनीय पादारविन्दाः,३ परमानन्दपरिस्पन्दभाजः पांसूनिव पार्थिवान्, तृणमिव स्त्रैणम्, निधनमिव धनम् । रोगानिव भोगान्, राजयक्ष्माणमिव लक्ष्मीम्, आकलयन्तः सकलसंसारसुखविमुखाः कस्य भवादृशा भवनमवतरन्ति । यतः-यस्माद्धेतोः ईदृशाः-भवादृशाः कस्य-पुण्यवतो भवनं-गृहं अवतरन्ति । किम्भूताः भवादृशाः ? समस्ता ये मुनयः-यतयस्तथा मनुजानां यत् वृन्दं-कदम्बकं तथा Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy