________________
१८८
दमयन्ती-कथा-चम्पू: शोभनो निवासः-अवस्थानं यस्मिस्तत्तस्य । मुखस्य मन्दिरं, रोमराजेश्च तोरणस्रगुपमानम् । अत्र दंष्ट्रिकाशब्देन कूर्चमेव गृह्यते, अन्यथा श्यामलितोत्तरोष्ठपृष्ठत्वं कथं घटेत । पुनः किम्भूतः ? सिता:-श्वेता ये यज्ञोपवीततन्तवस्तैर्भूषितो देहो यस्य स भूषितदेहः । किम्भूतैः ? भक्त्या आराधितैः-सेवितैः त्रिपुरुषैः-हरिहरब्रह्मभिः रचिता प्रत्येकं रक्षार्थं या सूक्ष्मरेखास्ता अनुकतुं शीलं येषां ते भक्त्याराधितत्रिपुरुषरचितरक्षासूक्ष्मरेखानुकारिणस्तैः । मन्ये, सेवया प्रसन्नीभूतैः हरिहरब्रह्मभिः रक्षार्थमेतस्य वक्षसि तिस्रः सूक्ष्मा रेखा विहिताः सन्तीति । त्रिपुरुषैरिति त्रयः पुरुषा यत्रेति समुदायिन एव समुदायाः' इति दर्शने बहुवचनं व्यतिरिक्तसमुदायपक्षस्तु नेहाश्रित इति । उत्प्रेक्ष्यते, सुसूत्रीभूय-परस्परमविरोधं विधाय, पक्षे सुसूत्ररूपताश्रित्य देहलग्नै:-मुनिवपुः प्राप्तैः त्रिभिः पुण्ययोगैः कृतादिभिरिव । ननु किमर्थमत्र तेषामागमनम् ? इत्याह-कलिकालस्य-कलियुगस्य यः कलङ्कः-अपवादस्तस्य या शङ्का-भयं तस्याः शरणार्थमागतानि तैः कृतयुगादीनि त्रीण्यपीत्यचिन्तयन् माऽस्माकं कलि-कालापवादो लगतु ततस्तद्भीत्या मन्ये उपवीतव्याजेन मुनिमाश्रितानि । अन्योऽपि भीतःकस्यचित् प्रभोः शरणं गच्छत्येव । “कलङ्कोङ्कापवादयोः । कालोयसमले चापि ।" [३।१७-१८ इत्यनेकार्थः] । पुनरुत्प्रेक्ष्यते, त्रिपुष्करेषु-त्रिपुष्कराख्यतीर्थविशेषेषु स्नानावसरे-अभिषेकसमये विलग्नानि सरसानि-आर्द्राणि विसकाण्डान्येव-कमलनालान्येव कुण्डलानि-वलयास्तैरिव । मन्ये, ऋषिणा त्रिषु पुष्करेषु स्नानं विहितं तत्र प्रत्येकमेकैक विसकाण्डवलयो लग्नस्ततस्त्रयोऽमी तेषां त्रयाणां तीर्थानां विसकाण्डवलया इति । "कुण्डलं वलये पाशे ताटङ्के" [३।३७५] इत्यनेकार्थः । तथा शमो अस्यास्तीति शमीशान्तः, तथा विद्रुमं-प्रवालं तदाभौ रक्तत्वात्, तत्तुल्यौ अधरौ-ओष्ठौ यस्य स विद्रुमाभाधरः। तथा प्रजां पातीति प्रजापः क्रतुकृद्भ्यो हि प्रजात्राणं, तथा विप्रान् जापयति-जपं प्रापयति विप्रजापः । भदर्शनान्वयत्वात् । “जप हृदुच्चारे [पा० धा० ३९८] । जपतेर्णिच्" तथा सुष्टु तपः-व्रतमस्येति सुतपाः, तथा कौ-भुवि तपसा-लोकोत्तरेण धर्मेण श्लाघनीय:-शीलः कुतपः श्लाघी । यद्वा, को तपसा श्लाघा अस्यास्तीति कुतपः श्लाघी, "व्रीह्यादित्वादिनिः" [ ] "तपश्चान्द्रायणादौ स्याद्धर्मे लोकोत्तरेऽपि च ।" [ ] इति विश्वः । यदा कुतपो दर्भस्तदा सुतपा इत्युक्तो विसर्गाभावेऽपि श्रुत्याविरोधप्रतीतिः । तथा विकलत्रः-विगतकलत्रः । तथा सकलं त्रायते इति सकलत्रः । तथा अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहाः यमास्तेषां अन्तं-पारं अनुसर्तुशीलमस्येति यमान्तानुसारी, तथा कुशान्-दर्भान् लान्ति-गृह्णन्ति ये ते कुशला:-दक्षास्तैः सह वर्तत इति सकुशलः । चशब्द:-सर्वत्रविरोधे, तद्यथा-यः शमी नामा तरुर्भवति स कथं द्रुमाभां धरतीति
१. समुदाय अनू. । २. त्रिषु अनू. ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org