________________
तृतीय उवासः
१८७ ते अक्रीडास्तैर्ब्रह्मचारिभिः, तथा चक्रिणः-विष्णोरीडा-स्तुतिस्तत्परैः। विरोधे तु चः-पृथक्, ये अक्रीडा भवन्ति ते क्रीडापराः कथं स्युः? तथा रोमाणि विद्यन्ते येषां ते रोमशाः "अस्त्यर्थे रोमपिच्छाभ्यां शेलाविति शः"[लोमादिपामादिपिच्छादिभ्यः शनेलचः[पा० सू० ५।२।१००]। तथा विप्राणां बालकै :-डिम्भैः । विरोधे तु, ये सरोमाणा भवन्ति ते कथं विशेषेण प्रगतकेशा भवन्ति ? पुनः किम्भूतः ? सेविताः पुराणपुरुषा:-वृद्धा येन सः, तथा न विद्यते जनानामर्दनं-पीडा प्रियं यस्य स, जनासन्तापक इत्यर्थः । तथा प्रपन्नानांआश्रितानां शं-सुखं करोतीति प्रपन्नशङ्करः, तथा न आश्रितः-अङ्गीकृतो भवः-संसारो येन सः । तथा प्रबुद्धः विद्वान्, तथा न बन्दीकृत:-हठेन गृहीतो जनो येन सः । तथा श्रमण:तपस्वी, तथा अजिनं-मृगादित्वक् तस्य परिग्रह:-स्वीकारो यस्य स अजिनपरिग्रहः । विरोधे तु, सेवितः पुराणपुरुष:-विष्णुर्येन ईदृशो यो भवति स न विद्यते जनार्दनः प्रियो यस्य स, ईदृग्विधः कथं स्यात् ? स तु जनार्दन प्रिय एव स्यात् । तथा प्रपन्नः शङ्करः-भवो येन, ईदृशो यो भवति स अनाश्रितभवः-अनङ्गीकृतशङ्करः कथं स्यात् ? तथा यः प्रबुद्धःसुगतो भवति स वन्दाः-वन्दकाः बौद्धव्रतस्था न बन्दीकृतो जनो येन ईदृशः कथं स्यात् ? किन्तु बन्दीकृतजन एव स्यात् । तथा यः श्रमण:-क्षपणो भवति स कथं न विद्यते जिनस्य अर्हतः परिग्रहो यस्य ईदृग्विधः स्यात् ? किन्तु जिनाङ्गीकत्रैव भवेत् । तथा लोकानां वधः-हिंसा तेन सहित आत्मा यस्यासौ वधात्मकस्तथाविधो न, न लोकहन्तेत्यर्थः । क इव? ग्रहगण इव-ग्रहसमूह इव। स च किम्भूतः ? नवधात्मक:-नवसंख्या स्वरूप: आदित्यादिभेदात् । तथा अलीका-असत्या सन्धा-प्रतिज्ञा यस्य सः अलीकसन्धस्तथाविधो न, सत्यप्रतिज्ञ इत्यर्थः । क इव ? धनुर्धर इव-धनुष्क इव । स च किम्भूतः ? नालीकस्य-शरस्य सन्धानं यस्य स नालीकसन्धः । तथा दम्भवेदिनो दाम्भा:-मायिकास्तेषां स्थानकं-आश्रयः प्रियं यस्य स, तथाविधो न, अमायिस्थानसेवीत्यर्थः । क इव ? हंस इव। स च कीहक् ? नदस्य अम्भ एव स्थानकं तत् प्रियं यस्यासौ तथा विधः । तथा अकुलीन:-अनभिजातो न, क इव ? पन्नग इव । स च कीदृक् ? नाकु:-वल्मीकस्तत्र लीन:-आश्रितः । पुनः किम्भूतो मुनिः ? दंष्ट्रिकायाः-दाढिकाया यः रोमराजिस्तस्या या रेखा-विस्तारस्तया श्यामलितं-मेचकितं उत्तरोष्ठपृष्ठं-उपरितनाधरोपरिभागो यस्य स । “रेखा स्यादल्पके छद्मन्याभोगोल्लेखयोरपि ।" [२।२५] इत्यनेकार्थः । किम्भूतया दंष्ट्रिका रोमराजिरेखया ? प्रथमोद्भवेन-पूर्वोद्गमेन भासतेऽवश्यमिति प्रथमोद्भेदभासिनी तया, तदानीमेव सा रोमराजिनिःसृताऽस्ति, तेन भृशं भासते । उत्प्रेक्ष्यते, मुखमेव मन्दिरं तस्य शोभायै वन्दनमालयेव-तोरणस्रजेव । किम्भूतस्य मुखस्य ? सरस्वत्याः-भारत्याः सत्
१. अपितु अनू. । २. "संख्य" अनू. ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org