SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ १८६ दमयन्ती-कथा-चम्पू: विलसद्गङ्गां अमरशैलस्य शिलामिव । ललाटस्य शिलोपमानं तिलकानां च गङ्गोपमानं । तथा उज्जृम्भाणि-विकसितानि यानि पङ्कजानि तेषां यानि किञ्जल्कानि-केसराणि तद्वत् कपिलाः-पिङ्गला ये कायकान्तिकल्लोलाः-शरीरच्छविवीचयस्तेषु आप्लवमान इव-स्नानं कुर्वन्निव, तथा स्फारा-विपुला या स्फटिकस्य अक्षमालिका-जपमालिका तां बिभ्राण:दधत् । उत्प्रेक्ष्यते, करुणारसेन-कृपाकुलेन' पूर्णं-भृतं यद्वक्षःस्थलं तदेव दीर्घिका-वापी तस्या अन्तस्तरन्ती-मध्ये उन्मज्जन्ती बालकलहंसपक्षिणां पंक्तिमिव-श्रेणिमिव । कृपापूर्णवक्षसो वापी,२ स्फटिकाक्षमालायाश्च३ बालमरालपंक्तिरुपमानम् । तथा कुशश्च-दर्भः कौपीनवास:-कक्षापटस्तौ विद्येते यस्य स कुशकौपीनवासाः । किम्भूतः? एवंविधैर्मुनिभिः परिवृतः-वेष्टितः । किम्भूतैर्मुनिभिः ? कराभ्यां-पाणिभ्यां कलितानि-धृतानि कुशकाण्डानिदर्भस्तम्बाः कमण्डलुमण्डलं च-कुण्डिकासमूहो यैस्ते तथाविधैः, तथा विविधान्५अनेकप्रकाराः शाखा:-वेदांशा: कठबढचादयो येषां ते विविधशाखास्तै । "शाखाः द्रुमांशे वेदांशे भुजे पक्षान्तरेऽन्तिके ।" [२।२७] इत्यनेकार्थः । तथा जटा-केशरचना वल्कलं च-तरुत्वक् ते विधृते यैस्ते । तथा तैः कैरिव ? तरुभिरिव । किम्भूतैस्तरुभिः ? विविधाः काश्चिल्लघ्व्यः काश्चिद्गुर्व्यः शाखा येषां ते तथा तैः । तथा जटामूलं वल्कलं च तदेव ते विधृते यैस्ते तथा तैः । वल्कलं च तरूणां सहजं मुनीनां चाहार्यम् । तथा सह मेखलयामौज्या वर्तन्त इति समेखलास्तैः, तथा सह रुद्राक्षाणां अक्षमालया-जपमालया विद्यन्ते ये ते तथा तैः । कैरिव ? पर्वतैरिव । किम्भूतैस्तैः ? सह मेखलया-अद्रिमध्यभागेन वर्तन्त इति मेखलास्तैः, तथा रुद्राक्षाः अक्षाश्च-तरुविशेषास्तेषां माला-पंक्तिस्तया सह वर्तन्त इति सरुद्राक्षाक्षमालास्तैः । पुनः किम्भूतैः ? सह मृगकृतिकायां-मृगत्वचः श्लेषण-संयोगेन विद्यन्ते इति समृगकृतिकाश्लेषास्तैः, मृगत्वचं परिदधानः । च-पुनः ज्येष्ठा आषाढा:प्रशस्यव्रतिदण्डास्तैः सह विद्यन्त इति स ज्येष्ठाषाढास्तैः । कैरिव ? नक्षत्रैरिव । किम्भूतैस्तैः? मृगः-मृगशिरः कृत्तिका अश्लेषा ताभिः सहितानि समृगकृत्तिकाश्लेषाणि तैः, तथा ज्येष्ठा आषाढाश्च नक्षत्रे ताभिः सहितानि सज्येष्ठाषाढानि तैः । न सहत इति नञः सहे: षाचेति ढः [सहेः साडः सः]षाचास्यादेशो भवति । अषाढानक्षत्रं, तत्र भवो दण्डः आषाढः, भवार्थे संज्ञयामण [तत्र भवः] तथा ससम्मदैः-तृष्णाक्षयात् सानन्दः, तथा न मदस्य-गर्वस्य आकारं-स्तब्धत्वरूपं आकलयद्भिः-बिभ्रद्भिः विनयपरैरित्यर्थः । अपिःविरोधे, स च तुल्यार्थे व्यायेयः । कथं ये सह सम्यक्मदेन वर्तन्त इति ससम्मदाः-सगर्वा भवन्ति, ते मदाकारं कथं न कलयन्ति । तथा क्रीडा-विषयासक्तिः न विद्यते क्रीडा येषां १. कृपाजलेन । २. वाप्या अनू. । ३. मालिकायाश्च । ४. पुनः किंभूतः अनू. । ५. विधाः अनू. । ६. तथा नास्ति अनू. । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy