SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ १८५ तृतीय उट्वासः मिलन्मुग्ध मधुपमण्डलेनेव रुद्राक्षवलयेन विराजितवामपाणिपल्लव:२, न स्मृतः स्मरापस्मारेण, नाङ्गीकृतः कृतघ्नतया, नालोकितः कितववृत्तेन, नाकलितः कलिना, न विरुद्धो विरुद्धक्रियाभिः, अतितेजस्विया द्वितीय इव परब्रह्मणः, तृतीय इव सूर्याचन्द्रमसोः, चतुर्थ इव गार्हपत्याहवनीयदक्षिणाग्नीनाम्, पञ्चम इव दिक्पतीनाम्, षष्ठ इव महाभूताधिदेवतानाम्, सप्तम इव मूर्तर्तनाम्, अष्टम इव सप्तर्षीणाम्, नवम इव वसूनाम्, दशम इव ग्रहाणाम्, अनवरतहृदयकमलकर्णिकान्तःस्फुरज्ज्योतीरूपपरमब्रह्मकान्तिकलापेनेव बहिर्निर्गच्छताच्छम्, भस्मानुलेपेन कनकगिरिरिव विमल'चन्द्रातपेनापाण्डुरितदेहः६, दीर्घसरसबिसकाण्डपाण्डुना प्रचण्डपवनेनोर्ध्वमुल्लालितेन जटाजूटबन्धनपटप्रान्तपल्लवेन शिरःपतद्वियद्गङ्गाम्बुधाराहारिणी हरस्य स्वामिभक्त्या कृतानुकरणव्रतचर्यामिव कलयन्१०, कोमले महसि तरुणे११ वयसि वृद्धे तपसि पृथुनि यशसि गुरुणि श्रेयसि वर्तमानः, सदः सदाचाराणाम्, आश्रयः श्रुतीनाम्, महीमहिम्नः, प्रपा कृपारसस्य, क्षेत्रं क्षमाङ कुराणाम्, पात्रं मैत्रीसुधायाः, प्रासादः प्रसादस्य, सिन्धुः साधुतायाः, तरुणार्कमण्डलमध्यान्मुनिरवातरत् । ___ एवंविधे च व्यतिकरे-यस्मिन्नवसरे पुरोहितस्तयोरग्रे फलं कथयति तस्मिन्नेवावसरे कोऽपि मुनिस्तरुणार्कमण्डलमध्यात् अवातरत्-अवततार । किं कुर्वन् ? एवं विधं जटाभारमुद्वहन्-बिभ्रन् । किम्भूतं जटाभारम् ? कान्तं-कदं यत्कार्तस्वरं-स्वर्ण तत्स्वरूपंतद्वर्णं । पुनः किम्भूतम् ? उत्फुल्लानि-विकस्वराणि यानि पाण्डुपुष्पाणि-श्वेतकुसुमानि तेषां मालया जनिता शोभा यस्य स तम् । किम्भूतया मालया ? प्रदक्षिणेन-प्रदक्षिणावृत्त्या अक्षीणं-अविच्युतं यथा स्यात्तथा लग्ना-सम्बद्धा या सा तया । जटाभारं किमिव ? उत्प्रेक्ष्यते, नक्षत्रराज्या-नक्षत्रपंक्त्या जनितशोभं मेरुशिखरमिव-कनकाचलकूटमिव । किम्भूतया नक्षत्रराज्या ? प्रदक्षिणं-अनुकूलं अक्षीणं लग्नं-ज्योतिषप्रणीतमेषवृषादिराश्युदयो यस्यां सा तया । कनकपिङ्गजटाभारस्य मेरुशिखरं, पुष्पमालायाश्च नक्षत्रराजिरुपमानम् । तथा ईदृशीं ललाटपट्टिकां-अलिकफलकं कलयन्-धारयन् । किम्भूताम् ? अतिबहलेनअतिनिविडेन मलयजरसेन-श्रीखण्डद्रवेण रचितानि-कृतानि विचित्राणि-आश्चर्यकारीणि पुण्डूकमण्डनानि-तिलकरूपालङ्काराः यस्यां सा ताम् ।१ उत्प्रेक्ष्यते, रंगत्त्रिस्रोतसं १. तस्याम् अनू. । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy