SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ तृतीय उच्छ्वास: १८९ द्रुमाभीधरः, विः-नञर्थे विद्रुमाभाधरो न भवेत् ? किन्तु द्रुमाभामेव धरेत् । तथा यः सुतपा भवेत् स कथं कुत्सिततपः श्लाघनीयाशील: ? । तथा यो विगतकलत्रः स कथं कलत्रसहितः स्यात् ? । तथा यो यमस्य अन्तकस्य अन्तं - समीपं अनुसरत्यवश्यं स कथं सह कुशलेन - क्षेमेण वर्तत इति सकुशल : ? । पुनः किम्भूतः ? रुद्राक्षवलयेन -रुद्राक्षजपमालया विराजितो वाम: - सव्यः पाणिपल्लवो यस्य सः । उत्प्रेक्ष्यते, विकचं - सविकासं नवनूतनं यन्नलिनं तस्य शंकया-भ्रमेण मिलत्- संयुज्यमानं मुग्धं अप्रौढं यन्मधुपमण्डलं भ्रमरवृन्दं तेनेव । मन्ये, असौ रुद्राक्षवलयो न भवति किन्तु नलिनोपकण्ठमागता मधुपमण्डलीति । तथा स्मर एव अपस्मार:- ग्रहावेशस्तेन न स्मृतः, न स्मराधीन इत्यर्थः । तथा कृतं हन्तीति कृतघ्नस्तद्भावस्तत्ता तया नाङ्गीकृतः, परकृतोपचारवेत्तेत्यर्थः । तथा कितववृत्तेन - कपटाचारेण न आलोकितः - नेक्षितः, अदम्भ इत्यर्थः । तथा कलिना - कलहेन न आकलितः-स्वीकृतः, न क्लहप्रिय इत्यर्थः । तथा विरुद्धक्रियाभिः-असभ्यकर्मभिः न विरुद्ध:- विशेषेण आक्रान्तः, सत्कर्मकर्तेत्यर्थः । तथा अतितेजस्वितया-अतिदीप्तिमत्तया परमब्रह्मणः-प्रकृष्टाऽऽत्मनो द्वितीय इव, एकं तु दीप्तिमत्परमब्रह्माऽऽसीदेव द्वितीयं त्वयमेव, अतितेजस्वित्वात् । तथा सूर्याचन्द्रमसो: तृतीय इव, अत्राप्यतितेजस्विता हेतुः । सूर्याचन्द्रमसोरित्यत्र अवातसहोक्तस्वराणां द्वन्द्व [ देवता द्वन्द्वे च पा० सू० ६ २ २६ ] इति दीर्घः। तथा गार्हपत्या हवनीया दक्षिणाग्नीनां चतुर्थ इव, अत्राऽपि स एव हेतुः । तथा दिक्पतीनां-दिक्पालानां इन्द्रयमवरुणकुबेराणां पञ्चम इव प्रजापालकत्वात् । तथा महाभूतानां पृथिव्यादीनां पञ्चानामधिष्ठात्र्यो देवता - महाभूताधिदेवतास्तासां षष्ठ इव, अस्याऽपि महाभूतरक्षकत्वात् । तथा मूर्त्ता:- सशरीरा ये ऋतवः - वसन्तादयस्तेषां सप्तम इव, परार्थगुणत्वात् । तथा सप्त च ते ऋषयश्च- ' - " मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः ऋतुः । वसिष्ठश्च महातेजाः सप्तमः परिकीर्त्तितः ।" [ ] इति तेषां अष्टम इव, जितेन्द्रियत्वात्। तथा च वसूनां अनेकार्थवृत्तौ ३ " धरो ध्रुवश्च सोमश्च अहश्चैवानिलो नलः । प्रत्यूषश्च प्रभासश्च अष्टौ ते वसवः स्मृताः ।" [ ] इत्येवं रूपाणामष्टसंख्यदेवविशेषाणां नवम इव । तथा ग्रहाणां - सूर्यादीनां नवानां दशम इव, भास्वररूपत्वात् । अतितेजस्वितयेति वा सर्वत्र योज्यम् । पुनः किम्भूतः ? अच्छं अनलं यद्भस्म तस्य अनुलेपेन-अङ्गरागेण आ - ईषत् पाण्डुरित:- धवलितो देहो यस्य सः । उत्प्रेश्यते-बहिनिर्गच्छता-बहिर्निःसरता अनवरतं - सततं हृदयमेव कमलं तस्य या कर्णिका-बीजकोश: तस्या अन्त:-मध्ये स्फुरद्दीप्यमानं - ज्योतीरूपं यत्परमब्रह्म - प्रकृष्टज्ञानं तस्य कान्ति १. परमोपकार० अनू. । २. न नास्ति अनू. । ३. अनेकार्थवृत्तौ नास्ति अनू. । Jain Education International For Personal & Private Use Only www.jalnelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy