SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ १८० दमयन्ती-कथा-चम्पू: वैणिका:-वीणावादिन: वैणविका:-वेणुवादिनस्ततो द्वन्द्वस्तेषु वीणानां वेणूनां च ये कोणा:अश्रास्तान् रणयत्सु-वादयत्सु सत्सु । तथा गायनजने-गायकलोके तारेत्युच्यध्वनिःअतिशयेन तार-तारंतरं यथा भवति तथा ग्रामरागं-पञ्चमस्वरं, यद्वा षड्गमध्यमगान्धारान् ग्रामान् रागं च-भरतोक्तं षड्विधं श्रीरागादिकं गायति सति । किंविशिष्टे गायनजने ? कण्ठकुहरे-गलनाले यत् प्रेखोलनं-घोलनं अलङ्काराश्च-मुद्रितविवृतानुनासिकादयस्तेषु कुशलः-प्रवीणस्तस्मिन् । अथ स्तुतिमेवाहवासरश्रीमहावल्लिं पल्लवाकारधारिणः । जयन्ति प्रथमारम्भसम्भवा भास्वदंशवः ॥ ४ ॥ वासरेति । प्रथमारम्भे-सूर्यस्य प्रथमोद्गमे सम्भवन्तीति प्रथमारम्भसम्भवाःअभिनवोत्पन्नाः भास्वदंशवः-सूर्यकरा जयन्ति । किम्भूता रविकराः ? वासरश्रीःदिनलक्ष्मीरेव महावल्लिस्तस्याः पल्लवाकारं-किशलयाकारं धारयन्तीति वासरश्रीमहावल्लीपल्लवाकारधारिणः, मन्ये दिनश्रीवल्लेरमी पल्लवा इति रक्तत्वसाधर्म्यात् ।।४।। जयत्यम्भोजिनीखण्डखण्डितालस्यसञ्चयम् । कौङ कुमं पूर्वदिग्गण्डमण्डनं मण्डलं रवेः ॥५॥ जयतीति। रवेर्मण्डलं-बिम्बं जयति। किम्भूतम् ? कुङ्कमेन-घुसृणद्रवेण रक्तं, कुङ्कमस्येदं वा कौकुम पूर्वदिशः-प्राच्या: गण्डमण्डनमिव-कपोलालङ्कार इव । अत्र लुप्तोत्प्रेक्षा । पुनः किम्भूतम्? अम्भोजिनीखण्डस्य-पद्मिनीवनस्य खण्डितः-अपास्त आलस्यसञ्चयः-निद्रासम्बन्धो येन तत्तथाविधं, विकस्वरीकृताब्जिनीवनं । कौङकुममिति "तेन रक्तंरागात्" [पा० सू० ४।२।१।] इति तृतीयासमर्थाद् रागवाचिनो रक्तमित्यर्थे अण् ॥५॥ राजापि प्रथमप्रबुद्धप्रगीतगीतध्वनि ध्वस्तनिद्रः४, सान्द्रविद्रुमप्रभाभासि संध्यावसरे, विधाय सान्ध्यं विधिम्, ५अधिकृतेन धर्मकर्मणि तत्कालपुरःसरेण पुरोधसा सहर्ष तामेवान्वेष्टमन्तःपुरमाजगाम । राजाऽपि-भीम: प्रथम-पूर्वं प्रबुद्धा-गतनिद्रा ये प्रगीता:-प्रकृष्टगीता-गाथकास्तेषां यो गीतध्वनिः-१ रागवद्वाक्योच्चारस्तेन ध्वस्ता-गता निद्रा यस्य स तादृशः सन् सान्द्रा १. गीतिध्वनिः अनू. । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy