SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ तृतीय उच्छ्वासः घना विद्रुमप्रभावत् प्रवालच्छविवद् रक्ताभाः - कान्तिर्यस्य स तथाविधे, सन्ध्यावसरेसायंतनसमये सन्ध्यायां भवं सान्ध्यं विधि- अनुष्ठानं सन्ध्यावन्दनादिकं विधाय कृत्वा यत्कर्म - कार्यं तस्मिन् अधिकृतेन अधिकारिणा तत्कालं यस्मिन् समये राजा प्रवृत्तस्तत्समयमेव पुरस्सरः- अग्रे प्रवृत्तस्तेन पुरोधसा - पुरोहितेन सह तामेव - प्रियङ्गुमञ्जरी अन्वेष्टुं-द्रष्टुं अन्तःपुरमाजगाम । दृष्ट्वा च विस्मयमानः १ स्फुरदरविन्दसुन्दराननां 'अनुगृहीतेयमिन्दुमौलिना' इत्यवधारयन्, अतिहर्षोत्कर्षमन्थरगिरा तां बभाषे । दृष्ट्वा च - अवलोक्य विस्मयमानः - विस्मयं प्राप्नुवन् स भीमः स्फुरद्-विकसद् यदरविन्दं-पद्मं तद्वत् सुन्दरं आननं यस्याः सा तथाविधां तां - प्रियङ्गुमञ्जरीमियं प्रिया इन्दुमौलिना - हरेण अनुगृहीता, अस्या उपरि हरेण प्रसादः कृत इत्यवधारयन्-मनसि चिन्तयन् सन् अतिहर्षोत्कर्षेण मन्थरा मधुरा या गीस्तया बभाषे उवाच । किमाह १८१ मुग्ध रे स्निग्धनिरुद्धशब्दहसितस्फारीभवल्लोचनं, निर्यत्कान्ति कपोलपालिपुलकस्पष्टीकृतान्तर्धृति । एतत्ते करभोरु ! पङ्कजसदृग्दृष्ट्वा मुखं मे बलादुच्चैः किञ्चिदचिन्त्यचर्चित 'चमत्कारं मनो हृष्यति ॥ ६ ॥ मुग्धेति । वृत्तम् । हे करभोरु ! प्रिये ! ते तव एतत् पङ्कजसदृक्- पद्मसमानं मुखं दृष्ट्वा मे-मम मनः बलात् - सहसा उच्चैः - उत्कृष्टं किञ्चिदनिर्वाच्यं अचिन्त्यःकल्पनातीतश्चर्चितः-उक्तश्चमत्कारो यत्र कर्मणि ईदृशं यथाभवति तथा हृष्यति - हृष्टं भवति । "चर्च जर्च झर्चश् उक्तौ भर्त्ये च ।" [ ] यद्वा, मनोविशेषणम् । किम्भूतं मनः ? अचिन्त्याधिगतचमत्कारं । किम्भूतं मुखम् ? मुग्धं - रम्यं स्निग्धं - दन्तज्योत्स्न्या चकचकायमानं निरुद्ध:- निवृत्तः शब्दो यत्र मादृशं यत् हसितं - हास्यं तेन स्फारीभवतीविकसती लोचने यस्मिंस्तत्तथाविधम् । “मुग्धो मूढे रम्ये" [२।२४९] इत्यनेकार्थः । तथा निर्यती-निःसरन्ती कान्तिर्यत्र ईदृश्यौ ये कपोलपाली - प्रशस्तगण्डौ तयोर्ये पुलका:रोमाञ्चास्तैः स्पष्टीकृता- प्रकटीकृता अन्तः - चित्तस्य धृतिः - सुखं येन तत्पुलकितकपोलेन मुखेन ज्ञायते । यदेतस्याः सन्तानवरप्राप्त्या अन्त:सुखमुत्पन्नमिति । अत्र पालिशब्दः १. तादृशं अनू. । २. प्रकटिता अनू. । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy