SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ १६८ दमयन्ती-कथा-चम्पू: शशिकरा न किन्तु पुष्पाणीति । शार्दूलविक्रीडितम् ॥ ३७ ।। अपि च किं कर्पूरकणाः स्रवन्ति वियतः किं वा मनोनन्दिनो, मन्दाश्चन्दनबिन्दवः किमु सुधानिष्यन्दधारा इमाः । इत्थं भ्रान्तिममी जनस्य जनयन्त्यङ्गे लगन्तः परा मिन्दोः कुन्दविकासिकुड्मलदलत्रक्सुन्दरा रश्मयः ॥ ३८ ॥१ अपि चेति । अपि च-पुन: किं कर्पूरेति । अमी-इन्दो-रश्मयः-कराः जनस्य अंगे-देहे लगन्तः-सन्तः इत्थंअमुना प्रकारेण परां-प्रकृष्टां भ्रान्ति-भ्रमं जनयन्ति-उत्पादयन्ति । तमेव प्रकारमाह'वियतः-आकाशात् किमिति-वितर्के कर्पूरकणाः-घनसारलवाः श्रवन्ति-क्षरन्ति ? वाअथवा किं मनो नन्दयन्ति-आह्लादयन्तीति मनोनन्दिनो मन्दा:-लघवश्चन्दनस्य-द्रवरूपस्य बिन्दवः-कणाः श्रवन्ति-शीतलत्वात्तेषामपि । अथवा इमाः सुधानिस्यन्दनस्य-पीयूषक्षरणस्य धाराः सततपाता इति ! किम्भूता रश्मयः ? कुन्दानां-पुष्पविशेषाणां विकासीनिविकसनशीलानि यानि कुड्मलानि-मुकुलानि तेषां यानि दलानि-पत्राणि तेषां या स्रक् तद्वत्सुन्दरा इति । शौक्ल्यसौकुमार्यातिशयार्थः । कुड्मलदलप्रयोगः जरठकुन्दस्य हि दलाग्राणि अरुणानि परुषाणि च भवन्तीति । शार्दूलविक्रीडितम् ॥ ३८ ॥ इति जनितमुदिन्दोः सिन्दुवारस्रगाभं, किरति किरणजालं मण्डले दिङ मुखेषु । हरचरणसरोजद्वन्द्वमाराधयन्ती, शुचिकुशशयनीये साऽथ निद्रां जगाम ॥ ३९ ॥ इति श्रीत्रिविक्रमभट्टविरचितायां दमयन्तीकथायां ____ हरचरणसरोजाङ्कायां द्वितीय उच्छ्वासः ॥ इतीति । अथ-अनन्तरं इति-अमुना प्रकारेण जनिता मुद्-हर्षे येन तत् । तथा सिन्दुवारस्रगाभं-निर्गुण्डीकुसुममालाप्रतिमं किरणजालं-करनिकरं दिङ्मुखेषु किरति १. प्रकारमेवाह अनू. । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy