SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ द्वितीय उच्छ्वासः अपि चेति । अपि च-पुनः कर्कन्धूफलमुच्चिनोति शबरी मुक्ताफलाकाङ्क्षया, सान्द्रा चन्द्रमसो न कस्य कुरुते चित्रभ्रमं चन्द्रिका ॥ ३६ ॥ मुग्धेति । सान्द्रा- निविडा चन्द्रमसश्चन्द्रिका - ज्योत्स्ना कस्य चित्ते भ्रमं - विपर्यासं न करोति, अन्यस्मिन् वस्तुनि अन्यबुद्धि कस्य न जनयतीत्यर्थः । तमेवाह-मुग्धा:-अच्छेका बाला वल्लवाः-गोपालाः गवां-धेनूनां अधः दुग्धधिया - पयोबुद्ध्या कुम्भान् विदधतेकुर्वते, ते मुग्धत्वादिदं न जानन्ति यदमी चन्द्रकरा इति किन्तु दुग्धं क्षरतीति ततस्तदधो घटान् न्यस्यन्तीति । तथा कान्ता अपि कर्णे कुवलयं - नीलोत्पलं कैरवशङ्कया-कुमुदभ्रमेण कुर्वन्ति । तथा शबरी - भिल्लस्त्री कर्कन्धूफलं - बदरीफलं मुक्ताफलानां - मौक्तिकानां आकांक्षा'- - वाञ्छा तया उच्चिनोति -आदत्ते, जात्येकवचनम् । अमूनि कर्कन्धूफलानि न भवन्ति किन्तु मुक्ता इति बुद्ध्या तानि स्वीकुरुते । बाला - गोपालाः, शबर्यः - आरण्यकस्त्रियो विपर्यस्ता भवन्तु, परं सततं परिचितोत्तंसरचनाः कान्ताः - उत्तमस्त्रियोऽपि विपर्यस्ता इति । अपेर्विस्मयार्थता । शार्दूलविक्रीडितम् ॥ ३६ ॥ यत्र च यत्र च इति । यत्र च चन्द्रोदये १६७ मुक्तादाममनोरथेन वनिता गृह्णन्ति वातायने, गोष्ठे गोपवधूर्दधीति मथितुं कुम्भीगतान्वाञ्छति । उच्चिन्वन्ति च मालतीषु कुसुमश्रद्धालवो मालिका:, शुभ्रान्विभ्रमकारिणः शशिकरान्पश्यन्न को मुह्यति ॥ ३७ ॥ Jain Education International मुक्तेति । शुभ्रान्-धवलान् विभ्रमं - आशंकां कुर्वन्तीत्येवंशीला विभ्रमकारिणस्तान् शशिकरान्-इन्दुरुचीः पश्यत् कः - जनः न मुह्यति - न मूढो भवति ? अपितु सर्वोऽपि । तत्प्रकारमेवाह–वनिता:-स्त्रियः वातायने - गवाक्षे मुक्तादाममनोरथेन - मौक्तिकमालाकांक्षया शशिकरान् गृह्णन्ति, यदियं मौक्तिकमालेति कृत्वा तद्ग्रहणाय करं क्षिपन्ति । तथा गोष्ठेगोस्थाने गोपवधूः- गोपालकान्ता कुम्भीगतान् - धरान्तर्गतान् शशिकरान् दधि इति कृत्वा मथितुं वाञ्छति । च- -पुनर्मालिका:-पुष्पलाव्यो मालतीषु जातिषु कुसुमानां ग्रहणे श्रद्धावाञ्छा यासां ताः कुसुम श्रद्धालवः - तादृश्यः सत्यः शशिकरान् उच्चिन्वन्ति - आददते, अमी १. या आकांक्षा अनू. । For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy