SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ १६६ दमयन्ती-कथा-चम्पू: कः ? यस्मिन्-चन्द्रोदये जाते सति भ्राम्यत:-काकहननार्थं पर्यटतः । क्रुद्धं काकेन दिवाटनात् कुपितं यत् उलूककदम्बकं-घूकवृन्दं तस्य पुरतः-अग्रे काकोऽपि हंस इवाचरति हंसायते श्वेतचन्द्रकान्तीनां सम्पर्कात् तस्याऽपि धवलत्वमभूत्, अतएव हंसबुद्ध्या तैर्न हत इति भावः । किम्भूतस्य ? संस्मृतं-पूर्वं काकेन ते हता आसन्, अतएव स्मरणगोचरमायातं यद्वैरं-विरोधस्तेन दारुणं-रौद्रं रणं प्रारभतेऽवश्यमिति संस्मृतवैरदारुणरणप्रारम्भि तस्य । शार्दूलविक्रीडितवृत्तम् ॥ ३४ ॥ अपि च श्च्योतच्चन्दनचारुचन्द्ररुचिभिविस्तारिणीभिर्भराज्जातेयं जगती तथा कथमपि श्वेतायमानद्युतिः । उन्निद्रो दिनशङ्कया कृतरुतः१ काको वराकः प्रिया मन्विष्यन्पुरतः स्थितामपि यथा चक्रभ्रमं भ्राम्यति ॥ ३५ ॥ अपि च-पुनः श्च्योतदिति । विस्तारिणीभिः-विस्तरणशीलाभिः श्च्योतत् द्रवरूपत्वात् क्षरत् यच्चन्दनं-गोशीर्षं तद्वच्चार्व्यः शीतलत्वात्, मनोज्ञा याः चन्द्ररुचयः-शशिकान्तयस्ताभिः इयं जगती-भूमिस्तथा कथमपि वक्तुमशक्येन, प्रकारेण भरात्-अतिशयेन अश्वेता श्वेता भवन्ती श्वेतायमाना द्युतिः-कान्तिर्यस्याः सा, तथाभूता जाता । यथा वराक:-तपस्वी काकः पुरतः स्थितामपि अग्रे व्यवस्थितामपि प्रियां-काकीमन्विष्यन्-वीक्षमाणः सन् सातत्यभ्रमणेन कुलालप्रेरितचक्रवत् भ्रमो यत्र, एवं यथा स्यात्तथा भ्राम्यति-पर्यटति । यद्वा, चक्र:कोकस्तस्येव भ्रमो यत्र, एवं यथा भवति तथा सोऽपि रात्रौ समीपवर्तिनीमपि प्रियामन्विष्यन् भ्रमति । चक्रभ्रममिति क्रियाविशेषणं ।२ चन्द्ररुच्या धवलितत्वात् काक्यां हंसीति भ्रमस्तत इतस्ततस्तदन्वेषणाय भ्रमतीति । किम्भूतः काकः ? दिनस्य या शंका अत्यौज्ज्वल्याद्दिनं जातमित्यारेका तया उन्निद्रः-विगतनिद्रः तथा कृतं रुतं-क्रों क्रों इति ध्वनिर्येन सः । शार्दूलविक्रीडितम् ॥ ३५ ।। अपि च - मुग्धा दुग्धधिया गवां विदद्यते कुम्भानधो वल्लवाः, कर्णे कैरवशङ्कया कुवलयं कुर्वन्ति कान्ता अपि । १. हंस इति बुद्धया अनू. । २. भ्रमणक्रिया० अनू. । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy