________________
द्वितीय उच्छ्वासः
१६३ तमो न भवति किन्त्वमी सिन्धुराबद्धा इति । तथा गगनलक्ष्म्यां-नभोरमायां कलित:-धृतः काल: मेचकः कञ्चुक:-कञ्चुलिका यया सा, तस्यामिव सत्याम् । तथा ज्योतिरिङ्गणेषुरवद्योतेषु रंगत्सु-दीप्यमानेषु सत्सु । उत्प्रेक्ष्यते, मदनशरनिकरेण-कन्दर्पबाणवृन्देन विद्रुताःपीडिता ये दरिद्रास्सन्तो विटा:-षिड्गास्तेषां धनाभावेन आशाया अपूरणात् विषाद एवमनःपीडैव अनलस्फुलिंगा:-अग्निकणास्तेष्विव। अत्र अनलपदं करिकलभवदुक्तपोषकत्वात् न दुष्टम् । तथा प्रदीपकलिकासु-दीपाचिषु प्रदीप्यमानासु-राजमानासु सतीषु । उत्प्रेक्ष्यते, निशितासु-तीक्ष्णासु तिमिरमेव करिकुम्भ:-गजमस्तकपिण्डस्तस्य भेदने-विदारणे भल्लीष्विव-शस्त्रविशेषेष्विव । यथा भल्लीभिः करिकुम्भभेदनं भवेत् तथा दीपकलिकाभिस्तमो भिद्यत इति । तथा वियति-नभसि काञ्चिदप्यद्भुतां श्रियं-शोभां कलयति-धारयति सति । किम्भूते नभसि ? ताराभिविराजिते, अतएव पुनः किम्भूते ? प्लवमानानि-उन्मज्जन्ति पाण्डूनि-धवलानि यानि पुण्डरीकाणि-पद्मानि तैः कल्माषितःकर्बुरितो यः कालिन्दीपरिस्यन्दः-यमुना-प्रवाहस्तद्वत्सुन्दरं-रम्यं तस्मिन् । 'कल्माषो राक्षसे कृष्णे शबलेऽपि' इत्यनेकार्थः [३।७७३] । वियति कस्मिन्निव? उत्प्रेक्ष्यते, अमृतमथनक्षणे:-सुधार्थमथनावसरे क्षुब्धः-मथितो यः क्षीरसागर:-क्षीराब्धिस्तस्य ये रसबिन्दवः-दुग्धपृषतास्तैः स्तबकितं-शवलितं यन्नारायणवक्षःस्थलं तस्मिन्निव । तत्पक्षे, श्रियं-अब्धिपुत्रीं प्राप्नुवति सति । कालिन्दी-परिस्यन्दो नारायणवक्षश्च वियत उपमानं, पाण्डुपुण्डरीक्षाणि क्षीररसबिन्दवश्च ताराणामुपमानम् । पुनः कासु सतीषु ? वेश्यासु विटंभुजङ्गं कान्तं-पति अनुसरन्तीषु-गच्छन्तीषु, च-पुनः वेश्मपारापतपतत्त्रिणां-गृहकपोतपक्षिणां पंक्तिषु-राजिषु आवासयष्टेरुन्नतोंशो विटंकस्तस्यां तं समीपं गच्छन्तीषु । रात्रौ पारापतास्तन्निवासयष्टिषु निवसन्तीति । "कपोलपाली विटंकः" इति हैममाला [४७६] । तथा कुलटासु-असतीषु भ्रमः-भ्रमणं तत्र रसस्तात्पर्यं तं गतासु-प्राप्तासु सतीषु । निशीथिन्यां अन्धकारवशान्निःशङ्कं ताः भ्रमन्तीति, च-पुनः कुमुदिनीषु भ्रमराः-भृङ्गास्तैः संगतासुसम्बद्धासु, रात्रौ चन्द्रोदये तासां विकसनात् । तथा चत्वरेषु-संस्कृतभूमिषु अङ्गणेषु वा नेति-निषेधे दीपाल्या-प्रदीपपंक्त्या विरहितेषु सत्सु, दीपाल्या सहितेष्वित्यर्थः । “चत्वरं स्यात् पथां श्लेषे स्थण्डिलाङ्गणयोरपि।" इत्यनेकार्थः [३।५८७] । स्थण्डिलंसंस्कृताभूमिः । च:-पुन: चक्रवाकमिथुनेषु नदीनां पालिः-सेतुस्तस्यां विरहितेषु-वियोगिषु सत्सु, रात्रौ श्रीरामशापात्तेषां वियोग इति कविसमयः । तथा ईदृशे निशावतारे-क्षणदागमे जाते सति । कीदृशे ? जरत:-वृद्धस्य गतवयस्य अरण्यखण्डस्य य: कायः शरीरं तस्य काला-कृष्णा या कान्तिः-छविस्तद्वत् काशते-दीप्यत इत्येवंशीला जरद्वयकायकाल
१. राजिसु पक्षिणं अनु. । २. गवयस्य अनू. ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org