SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ १६४ दमयन्ती-कथा-चम्पू: कान्तिकाशी तस्मिन् । “का” दीप्तौ" [पा० धा० १२३८] ।१ ततः-अनन्तरम् अखण्डितप्रभावोऽथ प्रदोषेणान्धकारिणा । तस्याश्चित्ते स्थितः शम्भुरुदयाद्रौ च चन्द्रमाः ॥ ३१ ॥ अखण्डीति । वृत्तम् । अथेति-मङ्गले, तस्याः-प्रियङ्गमञ्जयश्चित्ते शम्भुः स्थितःतद्ध्यानलीनाऽभवदित्यर्थः । उदयाद्रौ च उदयाचले चन्द्रमा:-चन्द्रः स्थितः । अथ शम्भुशशिनोः श्लेषः । किम्भूतः शम्भुः ? प्रकृष्टदोषेण अन्धकारिणा-अन्धकनाम्ना प्रतिपक्षेण न खण्डितः-व्याहतः प्रभावः-वैभवं यस्य स तथाविधः । किम्भूतश्चन्द्रमाः ? अन्धत्वं करोत्यवश्यमिति अन्धकारी तेन, अत्र भावप्रधानो निर्देशः । यद्वा, अन्धकारमस्मिन्नस्तीति अन्धकारी तेन अन्धकारयुक्तेन प्रदोषेण-रात्रिमुखेन न खण्डितः प्रभायाः आव:-वृद्धिर्यस्य स, न तामसभावं प्रापित इत्यर्थः । अत्र आव:-वृद्ध्यर्थः । “अव रक्षणगतिकान्तिप्रीतितृप्त्यवगमनप्रवेशश्रवणस्वाम्यर्थयाचनक्रियेच्छादीप्त्यवाप्त्यालिङ्गनहिंसादहन( दान )भाववृद्धिषु' [पा० धा० ६३९] इति वचनानत् ॥ ३१ ॥ बिभ्रते हारिणी छायां चन्द्राय च शिवाय च । नभोगरुचये तस्मै नमस्कारं चकार सा ॥ ३२ ॥ बिभ्रते इति । अनुष्टुप् । सा-प्रियङ्गमञ्जरी तस्मै चन्द्राय च शिवाय च-शम्भवे नमस्कारं चकार । किम्भूताय चन्द्राय ? हरिणस्येयं हारिणी तां छायां-प्रतितिम्बं, कलङ्कमित्यर्थः। बिभ्रते-धारयते । तथा नभोगा-वियद्व्यापिनी रुचिः-छाया यस्य स तस्मै । किम्भूताय शिवाय ? हारिणी-चार्वी छायां-कान्तिं बिभ्रते, तथा भोग-विलासे रुचिःअभिलाषा यस्याऽसौ भोगरुचिस्तस्मै, पश्चान्नञ् योगः । “छाया पंक्तौ प्रतिमायामर्कयोषित्यनातपे । उत्कोचे पालने कान्तौ शोभायां च तमस्यपि ।" इत्यनेकार्थः [२।३६३] ॥३२॥ नित्यमुद्वहते तुभ्यमन्तः सारङ्गरञ्जितम् । भूतिपाण्डुर गोवाह सोम स्वामिन्नमो नमः ॥ ३३ ॥ १. तथा सकलजीवलोके अन्धकारबाहुल्यात् तरुणं-नवं यत्तमालकाननं-तापिच्छवनं तद्विशतीव-प्रविशतीव । तथा अञ्जनगिरेः-कृष्णवर्तस्य गुहागर्भ-कन्दरामध्यं विशतीव । तथा इन्द्रनीलमहामणीनां यन्मन्दिरं गृहं तस्योदरं-मध्यं विशतीव तमोबाहुल्यात्, लोकानामदृश्यमानत्वे इयमुत्प्रेक्षा । अनू. प्रतौ । Jain Education Ternational For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy