________________
१५०
दमयन्ती-कथा-चम्पू: संख्यविख्यातकीर्तनीयकीर्तिसुधाधवलितवसुंधरावलयो निजभुजपञ्जरान्तरनिरुद्धसारिकायमाणरणरङ्गाङ्गणार्जितोर्जितजयश्रीः, यौवनमदमत्तकान्तकुन्तलविलासिनीनयननीलोत्पलदलमालाभ्यर्च्यमान लावण्यपुण्यप्रतिमः, रविरिव नासत्यजनकः, पुरंदर इव नाकविख्यातः, गरुत्मानिव नागमाधिक्षेपी, पद्मखण्ड इव नालसहितः, व्याकरणप्रबन्ध इव नामसंपन्नः, धाम धाम्नाम्, आधारो वीरताया:२, पुरं पुरुषकारस्य, आश्रयः श्रेयसां, श्रियां श्रुतीनां च, राजा राणाङ्गणेष्वगणितभीीमो नाम ।
तत्र-कुण्डिनपुरे एवं विधो भीमो नाम राजा अस्ति । किम्भूतो राजा ? समस्तरिपुपक्षाणां-सकलवैरिपक्षाणां क्षोदे-चूर्णने क्षमाः-समर्थो ये दक्षिणक्षोणीपाला:दाक्षिणात्या अनुकूला राजानस्तेषां मौलिषु-किरीटेषु यानि माणिक्यानि-रत्नानि तान्येव निकषः-शाणस्तेन निर्मलिता-निर्मजिताश्चरणनखा एव दर्पणाः-आदर्शा यस्य सः, सर्वेऽपि राजानस्तत्पादयोः पतन्तीति भावः । तता चतुरुदधीनां-चतुःसमुद्राणां पुलिनचक्रवालेषुद्वीपपुञ्जेषु या वालुका:-पांसवस्तद्वत् असंख्यानि-अनेकानि यानि संख्यानि-आयोधनानि तेषु जयाद्विख्याता-प्रसिद्धा कीर्तनीया-स्तवनीया या कीर्तिः सैव सुधा-लेपविशेषस्तया धवलितं-पाण्डुरितं वसुन्धरावलयं-भूमण्डलं येन सः । तथा निजभुजावेव पञ्जरान्तरंपञ्जरमध्यं तेन निरुद्धा-निगृहीता सारिकायमाणा-सारिकोपमा रणरङ्गाङ्गणे-समररूपनृत्यभूभागाजिरे अर्जिता-लब्धा ऊर्जिता-ऊर्जस्वला बलवती जयश्री:-विजयलक्ष्मीर्येन सः । यद्धजयोर्जयश्रीः क्रीडतीत्यर्थः । सारिका हि पञ्जरान्तरे निक्षिप्यत इति छायार्थः । तथा यौवनमदेन-तारुण्यदर्पण मत्ता:-दृप्ता: कान्ता:-कमनीयाः या कुन्तलविलासिन्य:-कुन्तलदेशीयः वा नामधेयस्येति स्त्रियस्तासां नयनान्येव नीलोत्पलदलमाला-नीलाब्जपत्रपंक्तिस्तया अभ्यर्चमाना-पूज्यमाना लावण्यमेव पुण्यप्रतिमा-पवित्रप्रतिबिम्बं यस्य सः । प्रतिमा हि कमलदलैरर्च्यत इति यल्लावण्यं ताभिर्नेत्राभ्यां पीयत इत्यर्थः ।
पुनः किम्भूतो राजानः ? असत्यजनक:-असत्यवक्ता, क इव ? रविरिव । स च कीहक् ? नासत्ययोः-देववैद्ययोर्जनक:-पिता । तथा न अकविषु-कुत्सितकविषु ख्यातःप्रतीतः सत्काव्यकर्तृत्वात् सत्कविषु प्रतीत इत्यर्थः । क इव ? पुरन्दर इव-शक्र इव । स च कीदृक् ? नाके-स्वर्गे विख्यातः । तथा आगमान्-शास्त्राणि अधिक्षिपति-तिरस्करोतीति आगमाधिक्षेपी, तथाविधो न आगमोक्तं सर्वं मन्यत इत्यर्थः । क इव ? गरुत्मानिव गरुड
१. वा नामधेयस्येति नास्ति अनू. ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org