________________
द्वितीय उच्छ्वासः
दाण्डिक्यनृपतेः शासना तस्यै आडम्बरिता:- पातिताः ये गण्डपाषाणा: - पर्वतच्युतस्थूलदृषदस्तैर्विदलितं-ध्वस्तं वैदर्भमण्डलं येन स तस्य । दाण्डिक्यो नाम भोजकटदेशाधिपः शुक्रसुतामरञ्जः संज्ञां, लब्धावसरः प्रसभादुपयेमे । ततः क्षत्रियः किल हठाद् द्विजकन्यां परिणीतवानिति । परिभूतं मन्येन शुक्रेण मन्युना पातितगन्धशैलवृष्टिना स वैदर्भमण्डलो हत: । तदा प्रभृति दण्डकारण्यमिति ख्यातम् ।
यत्र च विपत्त्राः सन्ति साधवो न तरवः १, विजृम्भमाणकमलानि सरांसि न जनमनांसि, कुवलयालंकाराः कमलदीर्घिका ? न सीमन्तिन्यः, विपदाक्रान्तानि सरित्कूलानि न कुलानि ।
यत्र चेति । यत्र च-कुण्डिनपुरे विपदस्त्रायन्त इति विपत्त्राः - साधवः सन्तः - वर्तन्ते, न तरवो विपन्ना:-विपर्णाः । तथा यत्र विजृम्भमाणानि - विकसन्ति कमलानि येषु तानि ईदृशं सरांसि वर्तन्ते, न जनमनांसि - लोकचित्तानि कुत्सितो विजृम्भमाणः-प्रसरन् मलः-पापं येष्विति, ईदृशि वर्तन्ते, निर्मलानीत्यर्थः । यद्विश्वः - "मलं किट्टे पुरीषे च पापे च कृपणे मल: [लान्त० द्वि० ८] ।" "कुत्सिते" [पा० सू० ५।३।७४ ] कः । तथा यत्रत्र - पुरे कुवलयान्येव-सरोजान्येव अलङ्कार:- मण्डनं यासां ता, ईदृश्यः कमलदीर्घिकाः- सरोजवाप्यः सन्ति, न सीमन्तिन्य: कुत्सितवलयालङ्काराः किन्तु सौवर्णकङ्कणभूषितकराः सन्ति । तथा यत्र-पुरे वीनां-पक्षिणां १ पादैः - चरणैराक्रान्तानि व्याप्तानि सन्ति निरापदीत्यर्थः ।
किं बहुना -
किं बहुना - किं बहूक्तेन
देशानां दक्षिणो देशस्तत्र वैदर्भमण्डलम् ।
तत्रापि वरदातीरमण्डनं कुण्डिनं पुरम् ॥ २८ ॥
१४९
देशानामिति । अनुष्टुप् । देशानां मध्ये दक्षिणो देशः प्रधानमिति गम्यते । तत्र-देशे वैदर्भमण्डलं प्रधानम् । तत्रापि - वैदर्भमण्डलेऽपि वरदातीरस्य मण्डनं भूषणं कुण्डिनपुरं प्रधानमिति ॥ २८ ॥
तत्रास्ति समस्तरिपुपक्षक्षोदक्षमदक्षिण क्षोणीपालमौलिमाणिक्यनिकषनिर्मलितचरणनखदर्पणश्चतुरुदधिपुलिन 'चक्रवालवालुकासंख्य
१. पदैः अनू. ।
Jain Education International
For Personal & Private Use Only
www.jalnelibrary.org