________________
दमयन्ती - कथा - चम्पू:
किम्भूतायाः वरदाया: ? मज्जन्त्य:- स्नानं कुर्वन्त्यो या महाराष्ट्रकुटुम्बिन्य:महाराष्ट्रदेशीयपुरन्ध्रयस्तासां मुखमण्डलैः - वक्त्राम्भोजैर्विधीयमाना-क्रियमाणा उत्फुल्लकमलखण्डस्य-विकसिताब्जवनस्य शोभा यस्यां सा तस्याः, मन्ये तासां मुखान्यमूनि न भवन्ति, किन्वेतत् प्रफुल्लकमलवनमिति । वस्तुतः सरिति कमलानुत्पत्तिरतस्तत्र तदारोपः । यस्य नातिदूरे दर्शनदूरीकृतदुरितोपप्लवाऽऽप्लवनजनितपातकभङ्गां गङ्गामुपहसन्ती स्वर्गमार्गाश्रयणनिश्रेणी पुण्यपयाः पयोष्णी वहति ।
१४८
तथा यस्य-कुण्डिनपुरस्य नातिदूरे- समीपे पयोष्णी नाम्नी नदी वहति । किम्भूता ? दर्शनेनैव दूरीकृत:-निराकृतो दुरितोपप्लव:- पापोपद्रवो यया सा, अतएव किं कुर्वती ? आप्लवनेन-स्नानेन जनितः पातकभङ्गो यया सा, तथाविधां गङ्गां सुरसरितमुपहसन्तीतिरस्कुर्वन्ती । गङ्गा हि स्नानात् पुण्यहेतुः पयोष्णी तु दर्शनादपीत्यस्या विशेषः । पुनः किम्भूता ? स्वर्गमार्गस्य आश्रयणे - आरोहणे निःश्रेणीव - अधिरोहिणीव या सा, यथा निःश्रेण्या प्रासादादेरुपर्यधिरुह्यते तथाऽनया स्वर्गे गम्यत इत्यर्थः । तथा पुण्यं - पवित्रं पानीयं यस्याः सा पुण्यपयाः ।
,
यस्य च पश्चिमप्रदेशे प्रणतसुरासुरमौलिनीलमणिमरीचिचञ्चरीकचक्रचुम्बितचरणाम्भोजस्य भोजकटकूपजन्मनो जरापातितययातेः प्रचण्डदाण्डिक्य'दण्डनाडम्बरितगण्डपाषाणविदलितवैदर्भमण्डलस्य
भगवतो भार्गवस्याश्रमः ।
तथा यस्य च कुण्डिनपुरस्य पश्चिमप्रदेशे - पश्चिमभूभागे भगवतो भार्गवस्य- - शुक्रस्य आश्रमो वर्तते इति शेषः । किम्भूतस्य भार्गवस्य ? प्रणताः - पादयोः पतिता ये सुराश्च असुराश्च तेषां ये मौलय :- किरीटानि तत्र ये नीलमणयः - इन्द्रनीलादयस्तेषां ये मरीचय:किरणास्त एव चञ्चरीकचक्रं - भ्रमरवृन्दं तेन चुम्बितं - आलीढं चरणाम्भोजं यस्य स तस्य । सुरासुरा अपि यत्पदाब्जं प्रणता इत्यर्थः । पुनः किम्भूतस्य ? भोजकटकूपेति-अधिष्ठाननाम तत्र जन्माऽस्येति । तथा च श्रुतिः - " शुक्रो भोजकटेऽभवत् ।” कूपादिप्रसिद्ध्या हि अधिष्ठाननामानि दृश्यन्ते । तथा च - "मरुदेशे शिवकूपः किराटकूपः जाङ्गलकूपः” इत्याद्यधिष्ठानानि । तथा जराविद्यया पातितः शतो ययातिः - नृपतिर्येन स तस्य । वृषपर्वदैत्यसुतां शर्मिष्ठां शुक्रसुतां देवयानीं च ययातिर्नृपतिरुपयेमे । ततोऽसौ शर्मिष्ठा प्रीत्या देवयानीमवजानन् तवाङ्गे जरा पतत्विति शुक्रेण शप्तः । तथा प्रचण्डा या दाण्डिक्यदण्डना
१. पयः पानीयं अनू. ।
Jain Education International
For Personal & Private Use Only
www.jalnelibrary.org